SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 362 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्गव्य सर्वार्थसिद्धिः कस्य विकल्पबोधनाशक्तेः । सविकल्पकस्य तु प्रत्यक्षत्वानभ्युपगमात् । न द्वितीयः; इन्द्रियसंयुक्तक्षणस्य तज्जन्यज्ञानकालेऽतीतत्वात् तदुत्तरक्षणस्य खपूर्वक्षणेन्द्रियसम्प्रयोगायोगेन तज्जन्यधीविषयत्वायोगात् । तदातनाक्षिसंप्रयोगस्य तु तात्कालिकबुद्धिहेतुत्वासिद्धेः । अतस्ते कथं प्रत्यक्षं वर्तमानग्राहि ? अस्मन्मते त्विन्द्रियसंप्रयोगस्य तद्विशिष्टवस्तुनः तदुपहितकालांशस्य च स्थायित्वेन धीक्षणानुवृत्तौ तद्विषयतया प्रत्यक्षोदयात् । सम्प्रयोगानन्तरक्षणे. धीरपि निवर्त्यते । अतो नासंप्रयुक्तं नास्थिरं नावर्तमानं वा प्रत्यक्षमिति । * पूर्वापरबहुभ्यक्तिव्याप्तिग्रहणसंभवा । . आनन्ददायिनी द्वितीयं दूषयति–सविकल्पकस्येति । तथा च अप्रमाणत्वान्न तेन प्रत्यभिज्ञाबाध इत्यर्थः । यद्यपि प्रत्यभिज्ञा प्रमाणं तन्मते; तथाऽपि विनिगमकाभावात् प्रत्यक्षतः क्षणिकत्वसिद्धिवत् स्थायित्वमपि सिध्यतीति भावः । वर्तमानविषयत्वमिन्द्रियसंप्रयुक्तक्षणविषयतया उत तदुत्तरक्षणविषयतया ? इति विकल्पमभिप्रेत्य आद्यं दूषयति-इन्द्रियसंप्रयुक्तेति । क्षणिकवादिनो ज्ञानोत्पत्तिकाले तस्याभावादिति भावः । द्वितीयं दूषयति-तदुत्तरक्षणस्येति । प्रत्यक्षस्य सन्निकृष्टार्थगोचरत्वादिति भावः । तदात (नीन्त) नेति-पौर्वापर्याभावादिति भावः । आद्यद्वितीये आहअस्मन्मते त्विति । पूर्वापरेति–पौर्वकालिकीनामापरकालिकीनां व्यक्तीनां . भावप्रकाशः सूक्तिमाकलग्याह * पूर्वापरबहुव्यक्तीत्यादि । यद्यपि न्यायबिन्दौ धर्मकीर्तिना
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy