SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 360. सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः इति न सत तावदित्यप्रतीतेः । तत्कालासत्त्वमेव ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ? ॥ २७ ॥ सर्वार्थसिद्धिः लान्तरस्थभेदसंवृत्या तस्मिन्निदन्त्वं अस्मिन् वा तत्त्वमारोप्य कल्पितैक्यविषयेति । अत्र प्रत्यक्षवृत्तान्तानभिज्ञोक्तिरियमित्यभिप्रायेण वक्ति–न सदिति । प्रत्यक्षस्य कालान्तरसम्बन्धप्रतिक्षेपकत्वाभावमाह तावदिति । वर्तमानत्वविधिरेवावर्तमानत्वनिषेधात्मा तावन्मात्रकालवर्तित्वं नियच्छेदित्यत्राह–तत्कालेति । तत्कालसत्त्वविधिर्हि तदानीमसत्तां निरुन्ध्यात् न तु कालान्तरसत्तामित्यर्थः । तथाऽपीदकारवता प्रत्यक्षेण कालान्तरसत्त्वस्यानालम्बनात् तत्प्रतिक्षेप इति चेत् । तत्राह—कालेऽन्यत्रापीति। आनन्ददायिनी तथेदंवस्तुनि तस्मिन् वा स्मृत्युपनीते भेदज्ञानप्रतिबन्धकदोषेणाभेदधीरित्यर्थः । प्रत्यक्षवृत्तान्तानभिज्ञतां दर्शयतीत्याह–प्रत्यक्षेति । अवर्तमानत्वनिषेधात्मा----कालान्तरसत्त्वनिषेधात्मा । तत्कालेति--- वर्तमानकालसंबन्धो न कालान्तरसंबन्धाभाव इति भावः । तथा च सोऽपि तत्काले असंबन्धं निरुन्ध्यात् न तु तस्य कालान्तरसंबन्धमन्यकाले निरुन्ध्यादित्यर्थः । तथाऽपीति-साधकाभावादिति भावः । ननु प्रत्यभिज्ञायाः प्रामाण्यसंदेहात् अन्यस्य च साधकस्याभावात् कथं प्रमितत्वमित्यत्राह-अयं भाव इति । इदमिति वर्तमानत्वात्प्रत्यक्षत्वबाधात् प्रत्यभिज्ञाया अप्रामाण्यं वाच्यं । तत्रेदमिति प्रत्यक्षस्य
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy