SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ 348 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः विरोधात् । अर्थजत्वं च प्रामाण्यं ब्रूषे । उपच्छन्दनार्थमुत्तानवाक्यमिति चेन्न; अतिप्रसक्तया सिद्धान्तसिद्धेर्दुर्निरूपत्वप्रसङ्गात् । शक्तं चेत् अन्त्यतन्तुसंयोगादिवदवश्यासिद्धसहकारिचक्र स्वकार्य कुर्यादिति चेन्न; स्वकारणादापततां सहकारिणामेतदधीनत्वाभावात् । पराधीनत्वेऽप्यवर्जनीयं तत्सन्निधानमिति चेन्न; अन्यथाऽपि दृष्टेः । अस्तु सहकारिसम्बन्धादिकमेव विरु आनन्ददायिनी साधारण्याद् (ण्ये रू) पादिविशेषनियमनादिन्द्रियस्याधिपतित्वं । नियामकस्याधिपतित्वात् । सहकारी-आलोकादिः । ततो जातस्य ज्ञानस्य स्पष्टता भवति । समनन्तरप्रत्ययः-संस्कारः । तस्मात् प्राचीनज्ञानोबोधः । आलम्बनप्रत्ययः-नीलानीलाद्याकारः प्रत्ययः । ज्ञानपदवेदनीयस्य चित्तस्य समनन्तरप्रत्ययसहितादधिपत्यादिविषयनियामकस्पष्टताप्रयोज (जन) कसहितान्नीलाकारज्ञानाच्चित्ताख्यं ज्ञानं नीलोऽहमित्याद्याकारसन्ततिं भजत इति चत्वारः प्रत्ययाः' इति बोधिचित्तविवरणे दर्शनादित्यर्थः । प्रामाण्यमिति—प्रामाण्यप्रयोजकामित्यर्थः । उपच्छन्दनं-वञ्चनं । उत्तानं-अहृदयं । अतिप्रसक्तयेति-त्वदुताविदमुपच्छन्दनार्थमुत्तानं इदं नेति निर्णयनियामकाभावात्सन्देहादयं सिद्धान्त इति व्यवस्था न स्यादित्यर्थः । ननु शक्तस्य सहकारिसम्पत्तिनियमात् अन्त्यतन्तुसंयोगादिवत् स्वकार्यका(क)रणं न स्यादिति शङ्कामनूद्य सहकारिसंपत्तेश्शक्तयधीनत्वाभावेन तथा नियम एव नास्तीति परिहरति-शक्तं चेदिति । अन्यथाऽपि—सहकारिसान्निध्याभाववत्तयापीत्यर्थः । दर्शनानुसारेण व्याप्तिर्वाच्येति भावः । कर
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy