SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सरः ] स्वभावत्वानुपपत्तिपरिहारः तत्र परसम्मतिश्च 347 सर्वार्थासिद्धिः इति चेन्न ; स्वहेतुसापेक्षत्ववदुपपत्तेः । 'अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्तौ कारणमिति युष्मदुक्तिआनन्ददायिनी स्वहेत्विति—कुर्वत्स्वभाव (स्व) लक्षणस्यापि स्वहेतुपरसापेक्षतया स्वभावत्वाभावप्रसङ्गादिति भावः । ननु क्षणानां हेतुसापेक्षत्वमेव नास्तीत्यत आह—अधिपतीति — अधिपतिरिन्द्रियं चक्षुरादि । प्रती - यते अनेनेति प्रत्ययः - कारणं । उदितस्य ज्ञानस्य रसादि भावप्रकाशः नन्तपदार्थानां चक्षुषी निर्माल्य कल्पनं स्यादिति । एवमनङ्गीकारेचतुर्भिश्चित्तचत्ता हि समापत्तिद्वयं त्रिभिः । मन्ये तु जायन्ते 11 इति भवदीयवचनविरोध इत्यभिप्रेत्य तत्र चतुर्भिरिति सामान्येनोक्तया चत्वारः प्रत्यया हेतुरालम्बनमनन्तरम् । तथैवाधिपतेयं च 11 इति तदर्थपरिज्ञानाय भाष्योक्तवाक्यमादत्ते- ' अधिपतीत्यादि । ननु अधिपत्यादीनां चतुर्णां तन्मते पूर्वं (५७ पृ) भिन्नधर्मप्रयोजकत्वाभिघानेन नानुपपत्तिरिति चेन्न ; तन्मते धर्मधर्मिणोरभेदेन विज्ञानक्षणगतधर्माणां विज्ञानाभिन्नतया दोषो दुर्वार:, तथाहि —– एकस्य अधिपत्यादिचतुष्टयसन्निधानेन ज्ञानोत्पत्तिकाले तद्विकलस्यान्यस्यालम्बनादिमात्रेण ज्ञानं नोतीत्यविवादं । एवं च आलम्बनप्रत्ययश्शक्तश्चेत् विज्ञानं तस्यापि जनयेत् न च तस्य जनयति इति प्रसङ्गतद्विपर्ययाभ्यां विज्ञानक्षण एको न स्यात् इति मिलितानां कारणत्वाङ्गीकारेण परिहारोऽपि तुल्य एवेति भावः ॥ ; ·
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy