________________
346
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः चाकुर्वत्तया स्वभावव्यवस्थासिद्धेः। परसापेक्षः कथं स्वभावः?
भावप्रकाशः न संभवतीति कुर्वत्त्वं भाविकार्यानुगुणव्यापारवत्त्वमित्यनुपदमेव व्यवस्थापयिष्यते । क्षणिकत्वपक्षे येषां क्षणानामेककार्यकारितया उपादानबीजक्षणसहकारित्वमुच्यते स्थिरपक्षे तत्क्षणसमुदायरूपाणां वस्तूनामेककार्यकारितयोपादानबीजसहकारित्वमपि संमतं । परं तु यावन्वयव्यति. रेकावेककार्यकारित्वग्राहको तावेव निरुक्तकुर्वत्तामपि प्रयोजयत इति परस्परोपकारित्वमप्यवर्जनीयं । क्षणिकत्वसिद्धेः पूर्व एकस्मिन् क्षणे निर्विभागतया विशेषाधानस्याशक्यत्वादित्युक्तेरसंभवात् । धर्मधर्मिणोर्भेदसाधनेन स्वभावस्यागन्तुकत्वेऽपि न धयॆक्यक्षतिः । 'एतद्धर्मकादेतद्धर्मकमुपजातम्' इत्यादिना धर्मविशिष्टस्यैवान्वयव्यतिरेकाभ्यां कारणता वक्ष्यते । तेन स्वभावस्यैव कारणत्वं स्यान्न धर्मिण इत्यपि समाहितम् । एतेन ; प्रथमक्षणे न परस्परोपकारित्वं किंतु द्वितीयक्षणमारभ्यैव इति ;
ततः प्रभृति ये जाताः विशेषास्ते तु तत्कृताः ।
तद्रूपप्रकृतित्वेन तेषां तद्रूपयोगिनाम् ॥ ४३७ ॥ इत्युक्तिरप्यनादेया । — कालानन्तर्यसाम्ये' इति श्लोकविवरणे क्षणिकत्वपक्षे भदन्तयोगसेनोक्तदूषणानि स्थरीकरिष्यन्ते । इति ॥
एतेन रत्नकीर्तिना-'पूर्वस्थितादेव सामग्रीमध्यप्रविष्टाद्भावास्कार्योत्पत्तिः । अन्यस्मादेव वा बिशिष्टाद्भावादुत्पन्नादिति विवादपदं । तत्र प्रागपि संभवे सर्वदैव कार्योत्पत्तिः न वा कदाचिदपीति विरोधमसमाधाय चक्षुषी निमील्य तत एव कार्योत्पत्तिदर्शनादिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हतीति' यदुक्तं तत् विकल्पाप्रामाण्यकल्पनाभिनिवेशनिबन्धनमिति सूचितम् । अन्यस्माद्भावादुत्पत्त्यङ्गीकारे क्षणिका