SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ 338 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्व्यं सर्वार्थसिद्धिः मबाधितं व्यवस्थापयेत् । * अस्वातन्त्रयादिविचारस्त्वत्र * प्रकृतानुपयुक्तः। न तृतीयः; यथार्थस्मृतौ विरोधाभावात् । सर्वापि स्मृतिरयथार्था अतीतस्य वर्तमानतयाऽवभासादिति चेन्न; अतीततयाऽपि प्रायशः स्मृतिभिरर्थोल्लेखात् । प्रच्युततदाकारस्य तद्वत्तया भासनादयाथार्थ्यमिति चेन्न; स्मृतिप्रमोषे तदभावात् । अतीतादिविषयानुमानानामपि तत्प्रसङ्गाच्च । तर्हि पाकरक्तेऽपि श्यामत्वधार्यथार्था स्यादिति च मन्दं ; प्राचीनश्यामताबुद्धौ विरोधाभावात्। एतेन स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे आनन्ददायिनी ल्यब्लोपे पञ्चमी । ननु स्मृतित्वेऽस्वातन्त्रयं न स्यादिति शङ्कां परिहरति-अस्वातन्त्रयेति। स्वातन्त्र्यास्वातन्त्रययोरर्थव्यवस्थापनादावनुपयोगादित्यर्थः । ननु ज्ञानं स्वसमानकालिकत्वेन स्वविषयावभासनस्वभावं । तथाच स्मृतिरपि स्वविषयमतीतदेशकालादिकं वर्तमानतया गृह्णती बाधितवियत्वादप्रमेति शङ्कते---सर्वापीति । तादृशस्वभावोऽसिद्ध इति परिहरति-नेति । प्रच्युततदाकारस्य-अवगतपूर्वकालादिसंबन्धस्य । स्मृतिप्रमोषः--तत्तानवगाहिस्मृतिः । यथा ज्ञानद्वयं भ्रम इति पक्षे इदं रजतमित्यत्र रजतस्मृतिः । यदि ज्ञानस्यातीतादिविषयकस्याप्रामाण्यनियमः तदा दोषमाह-अतीतेति । प्राचीनश्यामताबुद्धौ-प्राचीनतया श्यामताबुद्धौ श्यामतामात्रबुद्धौ चेत्यर्थः । भावप्रकाशः यता शान्तरक्षितेन प्रत्यभिज्ञायाः भ्रान्तत्वसाधनमनुचितमिति सूचितम् । *अस्वातन्त्रवादीति। आदिपदेन अधिगतार्थगन्तृत्वपरिग्रहः। *प्रकृता
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy