SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सरः] सर्वस्मृत्ययाथार्थ्यशङ्कापरिहारौ अतीतार्थस्मृतिप्रमात्वे दोषः तत्परिहारश्च 339 भावप्रकाशः नुपयुक्तः–क्षणिकत्वसाधनानुपयुक्त इत्यर्थः । अनधिगतार्थगन्तृत्वस्य प्रमात्वे क्षणिकत्वानुमितेरपि गृहीतग्राहित्वस्योदाहृततत्वसंग्रहपञ्चिकावाक्यसिद्धतया तस्या अप्यप्रमात्वं स्यात् । तत्वसंग्रहपञ्चिकोक्तदिशा प्रवृत्तसमारोपव्यवच्छेदकत्वेन अनुमानप्रामाण्यस्थापने अतत्तामनिदन्तां च तत्त्वेदन्त्वे निरस्यतः । इत्यत्र प्रत्यभिज्ञाया अपि प्रामाण्यं साधयिष्यत इति भावः । बौद्धानां स्थिरसिद्धिदूषणसमारम्भः पुद्गलनैरात्म्यसाधनार्थः । अतएव विज्ञप्तिमात्रतासिद्धौ ‘तद्विनेयजनान् प्रति' इत्यनेन ‘अस्ति सत्त्व उपादुकः' इति बुद्धोपदिष्टात्मास्तित्वप्रतिपादकवाक्यस्य अन्याभिप्रायकत्वं प्रकल्प्य द्वयाद्विज्ञानषट्कं प्रवर्तते न त्वेको द्रष्टास्ते न यावन्मन्ता इत्येवं पुद्गलनैरात्म्यं साधितम् । एवं श्लोकवार्तिकेऽप्यात्मवादे कुमारिलेन व्यक्तमुक्तम्-- नैरात्म्येनात्र चाक्षिप्ताः सर्वा एव हि चोदनाः । न च विज्ञानमात्रत्वे भोक्तृकर्तृत्वसंभवः ॥ इति पूर्वपक्षे तस्माद्वेदप्रमाणार्थमात्मात्र प्रतिपाद्यते । शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तत्वमात्मनः ॥ नित्यत्वं चेष्यते शेषं शरीरादि विनश्यति । नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते ॥ विक्रियामात्रवाचित्वे न ह्युच्छेदोऽस्य तावता ॥ स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ । न त्ववस्थान्तरप्राप्तौ लोके बालयुवादिवत् ॥ नैरात्म्यवादपक्षे तु पूर्वमेवावबुध्यते । मद्विनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत् ॥ 22*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy