SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 330 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः * रूपादिधीवदित्येव बोदाहर्तव्यम् । तदियं प्रमितिस्सती प्रत्यभिज्ञा पूर्वापरकालवर्तिविषयं साधयति । दीपनदीप्रवाहकृत्तपुनः प्ररूढकेशादिषु तु संप्रतिपन्नसामग्रीभेदादिबाधकबलात् आनन्ददायिनी ननु तेषां धर्मधर्मिभावाभावात् कथमेकत्वबुद्धिदृष्टान्तः? इत्यत आह-रूपादिधीवदिति । तथा च एकत्वधीः-अभेदधीरित्यर्थः । प्रत्यभिज्ञाया ऐक्यसाधकत्वे अतिप्रसङ्गं परिहरति-नदीप्रवाहेति । सम्प्रतिपन्नेति । तथा च न तुल्यबलत्वमिति भावः । आद्यदीपज्वालोत्पत्ती अमिवर्क्सवयवसंयोगो हेतुत्वेन निश्चितः । तथाऽन्त्यवतिसंयोगनाशो ज्वालानाशहेतुत्वेनावगतः । ततः प्रतिक्षणं अग्निवर्त्यवयवसंयोगतन्नाशानां भिन्नभिन्नानामुत्पद्यमानानां प्रतिक्षणं ज्वालातन्नाशोत्पादकत्वात् तत्र प्रत्यभिज्ञा बाधिता न साधिकेत्यर्थः । एतेन विप्रतिपन्नैकत्वधीः न प्रमा प्रत्यभिज्ञात्वात् नद्यादिप्रत्यभिज्ञावदिति प्रतिरोधः । तथा पूर्वानुमाने भावप्रकाशः इति । आर्यलङ्कावतारसूत्रे क्षणिकतापरिवर्ते तु अन्यार्थ इत्युक्तम् । अनुत्पत्तिं च धर्माणां क्षणिकार्थं वदाम्यहम् । उत्पत्त्यनन्तरं भङ्गं न वै देशेमि बालिशान् ॥ इतीति भावः । ननु वैभाषिकमते एकत्वस्य धर्म्यभेदेऽपि तत्प्रकारकज्ञानमेवैकत्वधीः न तु धर्मिमात्रावगाहि निर्विकल्पकं । तत्प्रकारकज्ञानं च अतद्रुपपरावृत्त्यवगाहि विकल्प एवेति न प्रमेति तसिद्धान्त इत्यतो धर्मिमात्रावगाह निर्विकल्पकमेव दृष्टान्तयति-* रूपादिधीवदिति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy