________________
सरः] त्रिगुणपरीक्षायां स्थैर्यसाधकप्रत्यभिज्ञाप्रमात्वसाधनं दृष्टान्तसिद्धिश्च 329
भावप्रकाशः इत्यार्यलङ्कावतारसूत्रमुदाहृत्य विज्ञानस्यापि निस्स्वभावत्वं व्यवस्थापितम् । एवं बोधिचर्यावतारे प्रज्ञापारमितायां---
ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः ।
एवं च को गुणो लब्धः चित्तमात्रे प्रकल्पते ? ॥ इत्यादौ । तद्विवरणपश्चिकायां च
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ॥ इति प्राचीनकारिकाविवरणानन्तरं
निस्स्वभावा अमी भावाः तत्वतस्स्वपरोदिताः ।
एकानेकस्वभावेन वियोगात् प्रतिबिम्बवत् ॥ इति । विज्ञानस्य क्षणिकत्वेऽपि एकानेकस्वभावो न संभवतीति 'तेन नैकं क्वचित्स्यात् ' इत्येतद्विवरणे वक्ष्यते । एतेन
ज्ञानाकारनिषेधस्तु स्ववेद्यत्वान्न शक्यते । विद्यते हि निरालम्बमारोपकमनेकधा ॥ ज्ञानस्यात्मगतः कश्चिन्नियतः प्रतिगोचरम् ।
अवश्याभ्युपगन्तव्यस्स्वभावश्च स एव च ॥ इति तत्वसंग्रहोक्तिर्वैभाषिकं प्रति दूषणं न तु माध्यमिकं प्रतीति सिद्धम् । आत्मसंवेदनेन परमार्थसतो विज्ञानस्याङ्गीकारे बाह्यार्थोऽपि परमार्थतोऽवश्यमङ्गीकरणीय इति बुद्धिसरे व्यवस्थापयिष्यते । क्षणिकत्वोपदेशश्च
रूपाद्यायतनास्तित्वं तद्विनेयजनान् प्रति । इति वसुबन्धूक्तदिशाऽन्याभिप्रायेण । यथोक्तं बोधिचर्यावतारे शान्तदेवेन
लोकावतरणार्थं तु भावा नाथेन देशिताः । तत्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते ॥