________________
328
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
भावप्रकाशः इति सर्वधर्माणां परिकल्पितपरतन्त्रपरिनिष्पन्नस्वभावत्रयशन्यत्वमुक्तम् । एवं आर्यलङ्कावतारसूत्रेऽपि
बुद्धया विवेच्यमानानां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ॥ (१७५) पञ्चधर्मा भवेत्तत्वं स्वभावा हि त्रयस्तथा । एतद्विभावयेद्योगी तथतां नातिवर्तते ।। (१९६) बुद्ध्या विवेच्यमानं तु न तन्त्रं नापि कल्पितम् । निष्पन्नो नास्ति वैभावः ! कथं बुद्धया विकल्प्यते ? ॥(१९८) न ह्यत्र काचिद्विज्ञप्तिः मरीचीनां यथा नभे । एवं धर्मान् विजानन्तो न किञ्चित्प्रतिजानते ॥ (१५५) विज्ञप्तिर्नाममात्रेयं लक्षणेन न विद्यते । स्कन्धाः केशोण्डूकाकाराः यत्र चासौ विकल्प्यते । चित्तं केशोण्डूकं माया स्वप्नगन्धर्वमेव च ।।
अलातं मृगतृष्णा च असन्तः ख्यान्ति वै नृणाम् । इत्यादि । एवं च
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते । इत्यत्र विज्ञानस्य परिनिष्पन्नस्वभावाङ्गीकारोऽनुचितः ।
न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च ।
न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ? ॥ इति माध्यमिकोक्तदूषणस्य बाह्यार्थविज्ञानयोस्समत्वात् । माध्यमिकवृत्तो
न स्वभावो न विज्ञप्तिः न वस्तु नच आलयः । बालैर्विकल्पिता ह्येते शवभूतैः कुतार्किकैः ॥