________________
सरः] त्रिगुणपरीक्षायां स्थैर्यसाधकप्रत्यभिज्ञाप्रमात्वसाधनं दृष्टान्तसिद्धिश्च 327
भावप्रकाशः न तदेकं नचानकं विषयः परमाणुशः । इति । इदं च तत्त्वसंग्रहे शान्तरक्षितेन -
यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम् । तत्किमेतन्न विच्छिन्नं विस्पष्टमवभासते ॥? (१९३५) तस्यैवं प्रतिभासेऽपि नास्तितोपगमे सति । चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत् । ?
भासमानः किमात्माऽयं बाह्योऽर्थः प्रतिभासते ॥? इत्यारभ्य
असन्निश्चययोग्योऽतः परमाणुर्विपश्चिताम् ।
एकानेकस्वभावेन शून्यत्वाद्वियदब्जवत् ॥ (१९९७) इत्यन्तसंदर्भेण वैभाषिकसौत्रान्तिकमतयोर्दूषणेन दृढीकृतं । एवं च
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते ।
इयमेवात्मसंवित्तिरस्य याऽजडरूपता । (२०००) इत्यादिना तत्वसंग्रहे वैभाषिकसौत्रान्तिकाभिमतं अर्थसंवेदनं प्रतिषिध्य योगाचाराभिमतात्मसंवेदनसाधनं तु न सम्यक् ; माध्यमिकैः सर्वत्र निस्स्वभावत्वलक्षणशून्यत्वस्य स्थापनेन जडस्वभावतद्वयावृत्तस्वभावयोश्शशविषाणसोदरत्वात् । किञ्च
विज्ञप्तिमात्रतासिद्धिर्धीमद्भिर्विमलीकृता ।
अस्माभिस्तद्दिशा यात परमार्थविनिश्चये ॥ (२०८४) इति तत्वसंग्रहे उक्तं । तत्र धीमन्तो विंशतिकारिकाविज्ञप्तिमात्रतासिद्धिकृतः । तैश्च त्रिंशतिकाविज्ञप्तिकारिकासु---
त्रिविधस्य स्वभावस्य त्रिविधां निस्स्वभावताम् । संधाय सर्वधर्माणां देशिता निस्स्वभावता ॥