________________
326
सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः बलाद्धाधः। विप्रतिपन्ना एकत्वधीः प्रमा'*विरुद्धधर्मासंसृष्टविषयत्वात् * सम्मतैकत्वधीवत्। न हि स्वलक्षणानां प्रत्येकमेकत्वं नास्ति ! तथा सति एकानेकसर्वविकल्पलोपेन माध्यमिकविजयप्रसङ्गात् ।
आनन्ददायिनी तथा सतीति-स्वलक्षणं किञ्चिदपि एकं वा भिन्नं वा? भिन्नमपि किञ्चिदेकं वा भिन्नं वा ? इति विकल्पेन स्वलक्षणसर्ववस्तुविलोपप्रसङ्गेन माध्यमिकमतप्रसङ्ग इत्यर्थः । सर्वस्याप्येवं विकल्पे कुत्रापि विश्रमाभावात् स्वलक्षणं भिद्यमानस्वरूपमेव यादवमुसलनीत्या न भवेदिति भावः ।
भावप्रकाशः द्वितीयक्षणभङ्गसिद्धौ रत्नकीर्तिनेति तत्रैव द्रष्टव्यम्। '*विरुद्धेत्यादिन्यायासद्धाञ्जने तु अबाधितबुद्धित्वादिति हेतुरुक्तः । *सम्मतैकत्वधींव दिति—यद्यपि अभिज्ञाप्रत्यभिज्ञाविषययोरेकत्वयोर्भेदोऽद्रव्यसरे वक्ष्यते। तथाऽप्येकत्वशब्देनोभयोरभिधानेनैकत्वविषयकत्वं धीद्वयस्याप्यक्षतम् । बौद्धमते तु
अतद्रूपपरावृत्तगजादिव्यतिरेकिणी ।
न संख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत् ॥ इति तत्वसंग्रहे (६३८) शान्तरक्षितेन एकत्वसंख्यायाः धर्मिरूपाया भानाङ्गीकारेण बाह्यार्थवादिवैभाषिकमते तज्ञानस्य अनुमानप्रामाण्योपपादनदिशा प्रमात्वं संभवतीति भावः । * एकानेकसर्वविकल्पलोपेन माध्यमिकविजयप्रसङ्गादिति । तदुक्तं वसुबन्धुना विंशतिकारिकाविज्ञप्तिमात्रतासिद्धौ--
रूपाद्यायतनास्तित्वं तद्विनेयजनान् प्रति । अभिप्रायवशादुक्तमुपपादुकसत्त्ववत् ॥