________________
सरः] दृष्टान्तान्तरं प्रत्यभिज्ञयैक्यासिद्धिः अतिप्रसङ्गपरिहारः बुद्धिभेदशङ्काच 331
सर्वार्थसिद्धिः तस्या न साधकत्वम् । ननु स इति धीः स्मृतिः अयमित्यनुभवः निरन्तरोत्पत्तेः ज्वालाक्षणेष्विव तयोः भेदाग्रहः इति ; 1* तन्न ; समानाधिकरणबोधात् । यद्यपि सोऽयमिति व्यवहारे तादृशधीभेदेन वैयधिकरण्यशङ्का ; तथापि तमिमं पश्यामी
__ आनन्ददायिनी नदीप्रत्यभिज्ञायां व्यभिचारश्च परिहृतः । प्रतिपक्षे बाधितत्वमुपाधिरिति न तुल्यबलता । विरुद्धानुपहितविषयत्वाभावाद्वयभिचाराभावश्चेति ध्येयम् । ननु प्रत्यभिज्ञाया ऐक्यसाधकत्वमनुपपन्नं ज्ञानद्वयात्मकत्वेन तस्याः पूर्वापरकालवर्तिवस्तुविषयकत्वस्य प्रत्येकमभावात् । न च तदुभयगोचरज्ञानद्वयादैक्यसिद्धिः ; उभयत्रोभयगोचरत्वाभावे तदैक्यगोचरत्वासम्भवादिति शङ्कते–नन्विति । तर्हि बुद्धावैक्यगोचरबुद्धिः कथमित्यत्राह-निरन्तरोत्पत्तेरिति । ज्वालाक्षणषु--ज्वालारूपवस्तुषु । परिहरति-तन्नेति । ऐक्यरूपसामानाधिकरण्यविषयव्यवहारहेतुबोधस्य
भावप्रकाशः ' अनुस्मृतेश्च' इति सूत्रवेदान्तदीपोक्तदिशा समाधत्ते 1 * तन्नेति । ननु वैभाषिकैः प्रमात्वमर्थजत्वं तेनाविसंवादित्वं वा इति स्थापितं । इत्थं च प्रत्यभिज्ञायां तदंशेऽर्थजत्वविरहान्न प्रमात्वं ; यथाऽऽह न्यायबिन्दुटीकायां धर्मोत्तराचार्यः—'कुतः पुनरेतद्विकल्पोऽर्थान्नोत्पद्यते अर्थसन्निधिनिरपेक्षत्वात् । बालोऽपि हि यावद्दश्यमानं स्तनं स एवायमिति पूर्वदृष्टत्वेन न प्रत्यवमृशति तावन्नोपरतरुदितो मुखमर्पयति स्तने । पूर्वदृष्टापरदृष्टं चार्थमेकीकुर्वद्विज्ञानमसन्निहितविषयं