SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 316 सब्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः क्रियावद्भिः पटादेश्च कारकैस्तादृशोऽन्वयः । प्रधाने भागनिष्पत्त्या भागैरेक्याच्च भागिनः॥ प्राक्सत्त्वं सर्वभावानां मिथश्चैक्यमिति त्वसत् । . भिन्नांशपूर्वसत्त्वे हि नाभिन्नाद्भदसम्भवः ।। भिन्नाभिन्नाद्यभिव्यक्तिभेदानां प्राक्तनी भवेत् । एकस्य प्रागसन् भेदो यदि स्यादस्मदिष्टवत् ॥ प्राक्सतोऽस्याप्यवस्था चेत्तथाऽप्यस्मदभीष्टवत् । इति सांख्योक्तसत्कार्यवादनिरासः. आनन्ददायिनी. प्रधाने—उपादाने भोग्यांशस्य निष्पत्त्या तादृगन्वयस्साध्यसाधनभावान्वयोस्तु ; तथा च न कारकव्यापारवैयर्थ भागिनोंऽशिन उपादानस्य भागैरंशेरैक्यात्सर्वभावानां प्राक्सत्त्वमन्योन्यमैक्यं चेति शङ्कते-क्रियावद्भिरिति । भेदः प्राक्सन्न वेति विकल्पमभिप्रेत्य . आद्यं दूषयति—भिन्नांशेति । नाभिन्नादिति । भेदस्यापि पूर्वसिद्धत्वान्न कारकैः (कव्यापारसाध्यत्व) संभव इत्यर्थः । नन्वेकमेव वस्तु भिन्नं चाभिन्नं च । तत्र कारकैर्भेदस्याभिव्यक्तिः करिष्यत इति शङ्कते—भिन्नाभिन्नादीति । तस्मादभिव्यक्तेरेव प्राक्तन्या न साध्यत्वमिति साऽपि न साध्येति दूषयति-प्राक्तनीति । द्वितीयं दूषयतिएकस्येति । अस्मदिष्टवत् । अस्मदिष्टमस्मिन् वर्तत इत्यर्थः । इष्टयदिति पाठान्तरं । इष्टं करोतीत्यर्थः ॥ २४ ॥ इति सांख्योक्तसत्कार्यवादनिरासः.
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy