SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सर:] उत्पत्तिपदार्थभेदेन कारकव्यापारफलभेदः 315 सर्वार्थसिद्धिः इति सिद्धयति । स एव यदोत्पत्तिर्विवक्षिता तदा कार्यार्थः कारकव्यापार इत्येव वक्तव्यं । अन्यथा तूपचारः। क्रियैव कारकाणां स्यात् प्रतिसम्बन्धिनीत्यसत् । प्राक्सत्त्वासत्त्वसंक्षोभः तस्यामपि हि दुस्तरः ॥ आनन्ददायिनी स एवेति-कारकव्यापार एवोत्पत्तिरित्यर्थः । ननु तर्हि कारकव्यापारस्यैवोत्पत्ति(शब्दार्थ)त्वे कार्यस्यैवोत्पत्त्यर्थं कारकव्यापार इति लोकव्यवहारोऽनुपपन्नः षष्ठ्यर्थाभावादित्यत आह—तदा कार्यार्थ इति । अन्यथेतिकार्यस्योत्पत्त्यर्थे व्यवहार इत्यर्थः । ननु तर्हि कार्यमुत्पन्नमित्यत्र पौनरुक्तयप्रसङ्गः ? कृतिविषयत्वप्रागसत्स्वरूपलाभाकारेण शब्दबोध्याकारभेदान्न प्रसङ्गः । नन्वभिव्यक्तिवादिनोऽपि क्रियार्थत्वेन कारकव्यापारसार्थक्यमित्याशङ्कय तदूषयति-कियैवेति । प्रागिति । तस्यां-क्रियायां । ननु क्रियाया अपि प्राक्सत्त्वमस्तु क्रियावद्भिः कारकैः पटादेः कार्यस्य भावप्रकाशः त्पत्तिरेव स्वपरनिर्वाहिका घटत्वावस्थारूपोत्पत्तेरुत्पन्नत्वव्यवहारं निर्वहति। तदुक्तं शतदूषण्यां—'ये चान्ये पश्यतोहराणां प्रलापाः न चेदुत्पत्तिरुत्पत्तः नित्यत्वमनवस्थितिः । उत्पत्तावपि ; अतः कार्य कारणं च निरूपितम् ।। इत्येवमादयः ; तेऽप्यनयैव दिशा प्रशमनीयाः ' इति । सिद्धाऽनवस्थितिस्सामग्रयात्मकोत्पत्तिसंग्रहे । अन्यथा स्वपरत्राणान्न काचिदनवस्थितिः ॥ इतीति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy