________________
सरः]
त्रिगुणपरीक्षायां क्षणभङ्गावतरणम्
317
सर्वार्थसिद्धिः अर्धवैनाशिकनिरासाय सत्कार्यवादे साधिते तुल्यन्यायतया सर्वनित्यत्ववादेन समुत्थितस्सांख्यो निरस्तः। अथ '*पक्ष
आनन्ददायिनी सांख्यनिरसनानन्तरमेव वैनाशिकनिरसने संगतिमाह-अर्धवैनाशिकेति । अर्धवैनाशिको–वैशेषिकः ।
भावप्रकाशः * पक्षत्रयप्रतिपक्षमिति—यद्यपि तत्वसंग्रह त्रैकाल्यपरीक्षायां शान्तरक्षितेन
हेनोऽनुगमसाम्येन स्थिरत्वं मन्यते तदा। - अवस्थाभेदवान् भावः कैश्चिद्वौद्धैरपीष्यते ॥ इत्युक्तं । तत्र पञ्चिकायां 'भावान्यथावादी भदन्तधर्मत्रातः लक्षणान्यथावादी भदन्तघोषकः अवस्थान्यथावादी भदन्तवसुमित्रः पूर्वापरमपेक्ष्य अन्यथाऽन्यधिको बुद्धदेवः' इति चत्वारोऽस्तिवादाः भावलक्षणावस्थाऽन्यथान्यधिकसंज्ञिता विशदीकृताः। तत्र योगभाष्ये लक्षणपरिणामविचारावसरे यदुदाहरणं तदेवात्राऽपि द्वितीयपक्षे उपन्यस्तं । अवस्थापरिणामविचारावसरे योगभाष्योक्तोदाहरणद्वये एकैकमुदाहरणमालम्ब्य तृतीयचतुर्थपक्षयोः पृथग्भावः । अतो नित्यात्मतत्ववादिनो वात्सीपुत्रा इव एतेऽपि स्थिरद्रव्यवादिनो वैभाषिकैकदेशिनः सांख्यच्छायानुसारिणः । तेच इत्थं द्रव्यस्य स्थिरत्वं साधयन्ति
अतीताजातयोनिमन्यथाऽविषयं भवेत् । द्वयाश्रितं च विज्ञानं तायिना कथितं कथम् ॥ १७८८ ॥ कर्मातीतं च निस्तत्वं कथं फलदमिष्यते । अतीतानागते ज्ञानं विभक्तं योगिनां च किम् ॥