________________
सरः] त्रिगुणपरीक्षायां सत्कार्यवादनिरासे स्वमतेनोत्पत्तेस्स्वरूपं तदुपपत्तिश्च 309
सर्वार्थसिद्धिः
रात् । यदा हि तत्त्वादयो व्याप्रियन्ते तदा पट उत्पद्यत इति व्यवहरन्ति 'आद्यक्षणावच्छिन्नपटत्वावस्थैव वा पट
आनन्ददायिनी
त्यर्थः । कृतेरुत्पत्तित्वे लोकव्यवहारं प्रमाणयति — यदा हीति । व्याप्रियन्ते - कृतिविषया भवन्ति । व्यापारावस्थावत्त्वयोरुत्पत्तित्वे भाष्यं भावप्रकाशः
साध्यत्वाख्यविषयतावत्त्वेन उत्पन्नत्वव्यवहार उपपद्यत इति भावः । ननु अन्यत्र सिद्धान्त्यभ्युपगमानुरोधेन घटतदवस्थयोरुभयोरुत्पतिव्यवहारैकरूप्यानुसारेण च कारकव्यापारस्योत्पत्तिशब्दार्थता किं विशिष्य उत सामान्येन ? आद्ये उत्पत्तिशब्दस्य नानार्थत्वप्रसङ्गः । अन्त्ये धनेन घनवानित्यादेखि कारकव्यापारेण घट उत्पन्न इत्यादिप्रयोगाणामप्यनुपपत्तिः ? इति शङ्कायां भाष्योक्तमेव परिष्कृत्य समाधत्ते - * आद्यक्षणावच्छिन्नेत्यादिना । विद्यावानुत्कृष्टः चन्द्रसदृशं मुखं सुन्दरं घटः प्रमेयवान् इत्यादौ उद्देश्यत्वविधेयत्वाद्यवच्छेदकयोरभेदवत् व्युत्पत्तिवैचित्र्येण घट उत्पन्न इत्यादावप्यन्वयितावच्छेदके घटत्वे उत्पन्नपदार्थतावच्छेदकधर्माभेदो भासते इति तात्पर्येण पटत्वेत्युक्तं न तु तस्याप्युत्पत्तिपदशक्यता ; अनन्यलभ्य शब्दार्थः इति न्यायविरोधात् नानार्थत्वप्रसङ्गाच्च । एतेन —
1
आगन्तुकापृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ।
इति शतदूषणीतत्वटी कानुसारेणावस्थापदार्थस्याङ्गीकारे घटवायुसंयोगोत्पत्तिकाले घट उत्पद्यते इति व्यवहारापत्तिः वायुसंयोगस्यागन्तुकत्वात्; अतः स्वभिन्नत्वस्वसामानाधिकरण्यैतदुभयसम्बन्धेन परिमाणविशिष्टपरिमाणमेवावस्थापदार्थों वाच्य इति केषाञ्चित्प्रयासो व्यर्थः ।