SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 310 सव्याख्यसर्वार्थासिद्धिसहिततत्व मुक्ताकलापे [ जडद्रव्य सर्वार्थसिद्धिः स्योत्पत्तिरुच्यते । ' * ' सैव तदवस्थस्योत्पत्तिः' इति भाष्यमपि 2* तदभिप्रायमेव (येणैव) स्यात् । आनन्ददायिनी प्रमाणयति — सैवेति । तदभिप्रायमिति । आद्यक्षणावच्छिन्नाभिप्रायं भावप्रकाशः 2 6 घटत्वे वायुसंयोगाभेदविरहेण पूर्वोक्तदोषाभावेन शतदूषणीतत्वटीकोतदिशा अवस्थाशब्दार्थाङ्गीकारे बाधकविरहात् । ननु उत्पत्तिराद्यक्षणसम्बन्ध इत्येव युक्तं लाघवात् घटत्वावस्थाया अवयवसंयोगरूपाया उत्पत्तेश्शतदुषण्यामङ्गीकारेण तत्र घटत्वावस्थाविरहेणावस्थाया उत्पत्तित्वे तदनुपपत्तेश्च । एवं रूपादेरुत्पत्तिव्यवहारानुपपत्तिश्च । 'सैव तदवस्थस्योत्पत्तिः' इति भाष्ये आद्यक्षणावच्छिन्नत्वबोधकपदाभावात्तस्योत्पत्तिपदार्थनिर्वचनपरत्वोक्तिश्चानुचितेति शङ्कायामाह—' * सैव तदवस्थस्येत्यादि । * तदभिप्रायकमितिआद्यक्षणावच्छिन्नावस्थाभिप्रायकमित्यर्थः । ' जातस्य हि ध्रुवो मृत्युः ' इति गीताभाष्ये –' तत्र पूर्वावस्थस्य द्रव्यस्य उत्तरावस्थाप्राप्तिर्विनाशः; सैव तदवस्थस्योत्पत्तिः' इति सूक्तिक्रमः । अत्र तात्पर्य चन्द्रिका - सैवोत्तरावस्थाप्राप्तिरित्यर्थः । अत्र प्राप्तिशब्देन प्रथमक्षणागमस्य विवक्षितत्वादुत्तरक्षणेषूत्पत्तिशब्दयोगाभाव उपपन्न इति सूचितं इति । इत्थं च उत्पत्तिराद्यक्षणावच्छिन्नत्वघटितैवेति भाष्यकृतामाशयस्सिद्धः । अथचैनं नित्यजातं नित्यं वा मन्यसे मृतम् । इत्यादिश्लोकत्रयेण देहात्मवादमभ्युपेत्य समाधानप्रकरणे ' जातस्य हि ध्रुवो मृत्युः' इति गीता श्लोके 'ध्रुवं जन्ममृतस्य च' इत्यनेनाचेतनस्यापि
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy