________________
308
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
समवायस्यास्माभिरनभ्युपगमात् । तदेतदस्मच्छन्दान्वादेशेन सूचितम् । का तर्ह्यत्पत्तिः ? ' * कृतिरेव । अन्यधर्मः कथमन्यस्योत्पत्तिः १ इति चेत ; * तादर्थ्येन तद्धर्मतोपचा
आनन्ददायिनी
[ जडद्रव्य
अस्मच्छब्देति – षष्ठीबहुवचनान्तस्य विहितान्वादेशाख्येन नरशब्देनेत्यर्थः । अन्यधर्म इति । कृतिरात्मधर्मः कथं घटधर्मरूपोत्पत्तिस्स्यादित्यर्थः । यद्वा कृतिर्व्यापारः कारकधर्मः । तादर्थ्येनेति । ज्ञातो घट इत्यादौ ज्ञातताऽनभ्युपगन्तुर्ज्ञानस्येव घटधर्मत्वामि
भावप्रकाशः
वर्तमानावस्था प्रागसत्त्वं अतीतावस्थया सत्तां च न प्रतिपादयन्ति ; किंतु धर्मिणां प्राक्सत्त्वं न धर्माणां इत्यादिकमेवेत्यादि स्फुटम् । सिद्धान्ते पूर्वोत्तरावस्थानाशप्रागभावयोर्भावरूपत्वेऽपि परस्परं धर्मिणा च सहाभेदानङ्गीकारान कोऽपि दोषः । विज्ञानभिक्षुणाऽपि श्रीभाष्यादिसिद्धान्तितकतिपयार्थसाधयित्रा अत्राप्येवमेव यद्यङ्गीक्रियते तदा नास्माकं प्रद्वेष इति । एतच्च ' एकस्य प्रागसन् भेद,' इति कारिकया आचार्यैर्वक्ष्यते इति । अतिरिक्तावयविजनकतया पराभ्युपगतासमवायिकारणभूतसंयोगविशिष्टावयवानामेव यथा घटाद्यवयविरूपता ; अन्यथाख्यातिजनकत्वेन परसंमतज्ञानद्वयस्यैव यथा भ्रमत्वं ; एवमुत्पत्तिप्रयोजकत्वेन पराङ्गीकृतः कारकव्यापार एवोत्पत्तिः ; सैव कृतिः; कार्योत्पाद्यशब्दयोर्लोके पर्यायेण प्रयोगदर्शनादिति भावेनाह* कृतिरेवेति ' *तादर्थ्येनेति --- घटतदवस्थयोः कृत्युद्देश्यत्व
1
2
-