________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकला
सर्वार्थसिद्धिः
समवायस्यानभ्युपगमात् । अन्यतरस्याद्रव्यत्वे तु संयोगायो - गाच्च । न चतुर्थः प्रागेव दूषितत्वात् । न पञ्चमः तस्यैव साध्यत्वात् । न षष्ठः अभेदव्याप्यस्य कस्यचिदन्यस्य त्वयाऽप्यदर्शनात् इति । यच्चैतत् — पटस्तन्त्वात्मकः तत्संयोगतद्प्राप्तिरहितत्वात् । तादात्म्याभावे हि कुण्डबदरयोरिव संयोगो वा स्यात् हिमवद्विन्ध्ययोरिवाप्राप्तिर्वा ! तदुभयमिह निवर्तमानं तादात्म्यविरहमपि निवर्तयतीति । तदपि मन्दम् ; तादात्म्यविरहेऽपि अन्यतरस्याद्रव्यत्वात्संयोगाभावः तद्धर्मस्वभावत्वादेवाप्राप्तिपरिहार इत्यन्यथासिद्धस्यासाधकत्वात् । अन्यथा तादात्म्यभाव इव भेदसद्भावेऽपि घटपटयोरिव धर्मधर्मिभावो न आनन्ददायिनी
300
[ जडद्रव्य
I
समवायस्येति । तस्यैव साध्यत्वादिति – साध्याविशेषो दोष इत्यर्थः तदुक्तमनुमानान्तरं दूषयति यच्चैतदित्यादिना । तत्संयोगेतितत्संयोगरहितत्वे सति तदप्राप्तिरहितत्वादित्यर्थः । तत्संयोगरहितत्वादित्युक्तौ हिमवद्विन्ध्ययोर्व्यभिचारः । तदप्राप्ति रहितत्वादित्युक्तौ कुण्डबदरयोर्व्यभिचारः इति विशिष्टहेतुः । व्यतिरेकव्याप्तिं दर्शयतितादात्म्याभावे हीति । अप्रयोजकतामाह — तादात्म्यविरहेऽपीति । इष्टापत्त्यादिना अवस्थातद्वतोर्भेदस्यैवोपपादनादिति भावः । इतश्च न पटस्तन्तुभ्यो भिद्यते गुरुत्वान्तरकार्यादर्शनादित्यनुमानान्तरं दूषयति
भावप्रकाशः
इति च कुमारिलेन सांख्यस्य भेदाभेदवादित्वाभिधानाच्चेति भावः । भेदाभेदस्य सम्बन्धता निरसिष्यते । यद्यपि वर्तमानावस्थैवाभि