SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ सरः]त्रिगुणपरीक्षायां कार्य उपादानतादात्म्यसाधनानुपपत्तिः जनिपदार्थविमर्शश्च 301 सर्वार्थसिद्धिः स्यादिति प्रसज्येत । गुरुत्वान्तरकादर्शनं तु द्रव्यान्तरोत्पत्ति प्रतिरुन्ध्यात् न त्ववस्थातद्वतोरभेदं विदधीत । ननु जनिरपि व्यक्तिरेव । 'जनीप्रादुर्भावे' इति धात्वर्थपाठात् ? न; जनिव्यक्ति शब्दयोरर्थभेदेनैव निरूढेः । प्रादुर्भावपाठोऽप्युत्पत्ति परस्स्यात् । निर्वर्त्यप्राप्यभेदसिद्धेश्च । जन्यं हि निर्वयम्! व्यङ्ग्यं तु प्राप्यं । अभूततद्भावादिषु च प्रागसत्त्वमनुस्मृतमेव । आनन्ददायिनी गुरुत्वान्तरेति । द्रव्यस्यैव गुरुत्वाश्रयत्वादिति भावः । ननूत्पत्तिवादिभिरपि अभिव्यक्तिरेव नामान्तरेणाभ्युपगता । अन्यथा पदगताविति शाब्दस्मृतिविरोधः । गतिर्हि ज्ञानमभिव्यक्तिः ; अतस्तदूषणं स्वमतदूतषणमेव स्यादिति शङ्कते---नन्विति । परिहरतिपाठोऽपीति । धातुपाठोऽपीत्यर्थः । ननु जन्मनोऽभिव्यक्तित्वे निर्वयं च विकार्य च प्राप्यं चेति भेदेन कथनमनुपपन्नं स्यादित्याहनिर्वत्येति । ननु जनीप्रादुर्भावे इत्यत्र प्रादुर्भावशब्दः कथमित्यत्राह-अभूतेति । पूर्वमविद्यमानं यत् तद्भावः तादृशावस्थावत्त्वमित्यर्थः । तथाच असत उत्पत्तिस्मृतिबलाल्लक्षणेति भावः । अस्तु वा प्रादुर्भावशब्दो मुख्यः ; तथाऽपि तस्यासत्त्वात् असत भावप्रकाशः व्यक्तिरिति सांख्यनिष्कर्षः ; तथाऽपि वर्तमानावस्थाया अभिव्यक्तिहेतुत्वमात्रमेव । तस्या अभिव्यक्तिशब्दमुख्यार्थत्वं तु न सर्वसंप्रतिपन्नम् ; अमुख्ये सांख्यव्यवहारे ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy