________________
284
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
भावप्रकाशः धर्मिणोऽनन्यत्वेन धर्मेणापीह धर्मिवद्भवितव्यमित्यत आह-तत्र धर्मस्येति । भावः---संस्थानभेदः । सुवर्णादेर्यथा भाजनस्य रुचकस्वस्तिकव्यपदेशभेदो भवति ; तन्मात्रमन्यथा भवति । न तु द्रव्यं सुवर्णमसुवर्णतामुपैति । अत्यन्तभेदाभावादिति वक्ष्यमाणोऽभिसन्धिः इति तत्ववैशारदी । ‘अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणायोगादध्वसंकरः प्रामोतीति परैर्दोषश्चोद्यत इति तस्य परिहारः-- धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यः । न वर्तमानसमय एवास्य धर्मत्वम् ; एवं हि न चित्तं रागधर्मकं. स्यात् । क्रोधकाले रागस्यासमुदाचारात् इति । किञ्च त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति संभवः । क्रमेण तु स्वव्यअकाञ्जनस्य भावो भवेदिति । उक्तं च-रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते । सामान्यानि त्वतिशयैस्सह प्रवर्तन्ते तस्मादसंकर' इति योगभाष्यं । अत्र तत्ववैशारदी– परोक्तं दोषमुत्थापयति-अत्र लक्षणपरिणाम इति । यदा धर्मो वर्तमनस्तदैव यद्यतीतोऽनागतश्च तदा त्रयोऽप्यध्वानः संकीर्येरन् । अनुक्रमेण चाध्वनां भावेऽसदुत्पादप्रसङ्ग इति भावः । परिहरति-तस्य परिहार इति । वर्तमानतैव हि धर्माणामनुभवसिद्धा ततः प्राक्पश्चात्कालसंबन्धमवगमयति । न खल्वसदुत्पद्यते ! न च सद्विनश्यति ! तदिदमाह-एवं हि न चित्तं इति । क्रोधोत्तरकालं हि चित्तं रागधर्मकमनुभूयते! यदा च रागः क्रोधसमये अनागतत्वेन नासीत् तत्कथमसावुत्पद्येत? अनुत्पन्नश्च कथमनुभूयेत? इति । भवत्वेवं तथाऽपि कुतोऽध्वनामसंकर इति पृच्छति--किञ्चेति । किं कारणमसंकरे ? चः पुनरर्थे । उत्तरमाह—त्रयाणामिति । त्रयाणां लक्षणानां युगपन्नास्ति संभवः । कस्मिन् ? एकस्यां चित्तवृत्तौ । क्रमेण