SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सरः] सांख्ययोगयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम् 285 भावप्रकाशः तु लक्षणानामेकतमस्य स्वव्यञ्जकाञ्जनस्य भावो भवेत् - संभवेत् । लक्ष्याधीननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता । अत्रैव पञ्चशिखाचार्यसंमतिमाह उक्तंचेति । एतच्च प्रागेव व्याख्यातम् । उपसंहरति — तस्मादिति । आविर्भावतिरोभावरूपविरुद्धधर्भसंसर्गादसंकरोsध्वनामिति' इति । अत्रोदाहृतं पञ्चशिखाचार्यवाक्यं ' परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ' २-१५ इति सूत्रभाष्येऽप्युदाहृतम् । तथाच तद्भाष्यम्" प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रा भूत्वा शान्तं घोरं मूढं वा प्रत्ययं त्रिगुणमेवारभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते सामान्यानि त्वतिशयैस्सह प्रवर्तन्ते । एवमेते गुणा इतरेतराश्रयेणोपार्जित सुखदुःखमोहप्रत्यया इति सर्वे सर्वरूपा भवन्ति । गुणप्रधानभावकृतस्त्वेषां विशेष इति' इति । तत्र तत्ववैशारदी-' तदेवमौपाधिकं विषयसुखस्य परिणामतस्संस्कारतस्तापसंयोगाच्च दुःखत्वमभिधाय स्वाभाविकमादर्शयति-गुणवृत्तिविरोधाच्चेति । व्याचष्टे1 प्रख्येति । प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः । सत्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं - सुखात्मकं घोरं दुःखात्मकं मूढंविषादात्मकमेव प्रत्ययं सुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह – चलं च गुणवृत्तमिति क्षिपरिणामि चित्तमुक्तं इति । नन्वेकः प्रत्ययः ; कथं परस्परविरुद्ध शान्तघोरमूढत्वान्येकदा प्रतिपद्यते ? इत्यत आहरूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते इति । रूपाणि अष्टौ भावा धर्मादयः । वृत्तयः -- सुखाद्याः । तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्यैश्वर्यैः सुखादि ——
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy