________________
सरः ]
सांख्ययोगयोः सर्वनित्यत्वाभिप्रायकत्वप्रदर्शनम्
283
भावप्रकाशः
चेद्वर्तमानतामापन्नस्तां च हित्वाऽतीततामापत्स्यते ! हन्त भोः ! अध्वनामुत्पत्तिविनाशौ स्याताम् ! न चेष्येते! न ह्यसत उत्पादो नापिसतो विनाशः ! इत्यत आह- -न चेति । नचातीतानागताभ्यां सामान्यात्मनाऽवस्थिताभ्यां वियुक्त इत्यर्थः ' इति । एवं ' एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः । परमार्थतस्त्वेक एव परिणामः। धर्मिस्वरूपमात्रो हि धर्मः । धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्चायत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वखतीतानागतवर्तमानेषु भावान्यथात्वं भवति ; न द्रव्यान्तरत्वम् । यथा सुवर्णभाजनस्य भित्त्वा - न्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति' इति भाष्यम् । ' एष त्रिविधः परिणामो धर्मधर्मिभेदात् — धर्मधर्मिणोर्भेदमालक्ष्य तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर्घटादिर्वा धर्मपरिणामः। धर्माणां च अतीतानागतवर्तमानरूपता लक्षणपरिणामः । वर्तमानलक्षणापन्नस्य गवादेर्बाल्यकौमारयौवनवार्धक्यमवस्थापरिणामः । घटादीनामपि नवपुरातनताऽवस्थापरिणामः । एवमिन्द्रियाणामपि धर्मिणां तत्तन्नीलाद्यालोचने धर्मपरिणामः । धर्मस्य वर्तमानतादिर्लक्षणपरिणामः । लक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वास्फुटत्वादिरवस्थापरिणामः । सोऽयमेवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां भेदमाश्रित्य वेदितव्यः । अभेदमाश्रित्याह — परमार्थतस्तु इति । तुशब्दोऽभेदपक्षाद्विशिनष्टि । पारमार्थिकत्वमस्य ज्ञाप्यते न त्वन्यस्य परिणामस्य निषिध्यते । कस्मात् ? धर्मिस्वरूपमात्रो हीति । ननु यदि धर्मिविक्रियैव धर्मः ! कथं तर्हि असङ्करप्रत्ययो लोके परिणामेषु इत्यत रेति । धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते । एव विक्रियेत्येका चासङ्कीर्णा च । ताराणामभेदेऽपि धर्मिणः परस्परासङ्करात् । ननु धर्मिणा धर्माणामभिन्नत्वे धर्मिणोऽध्वनां च भेदे
आह— धर्मद्वातद्वारेण धर्मिण