SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 238 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः घनत्वश्यामतादीनां वनैकाधिकरण्यतः । न स्याबृक्षबहुत्वादेर्घनत्वाद्यैर्विशेषणम् ॥ तन्तवस्सितरक्ताद्याः पटचित्रानुयायिनः । अवयव्यनपेक्षत्वं चूर्णसंहतिचित्रवत् ॥ आनन्ददायिनी घटादिनिष्ठत्वाभावे महान् घट इत्यादिविशेषणविशेष्यभावप्रतीतिर्न स्यादित्यत्राह-घनत्वेति । घनत्वं-निबिडत्वं संयोगविशेषः महत्त्वं वा । वनैकाधिकरण्यतः-वनसामानाधिकरण्यात् । वननिष्ठत्वाभावात्तत्रापि घनं वनं नीलं वनमिति प्रतीतिर्न स्यादित्यर्थः । वृक्षबहुत्वादेःवनस्येत्यर्थः । केचित्तु-वनैकाधिकरण्यतः—घनं वनं श्यामं वनमिति प्रतीत्या वननिष्ठत्वस्य सिद्धेः वृक्षबहुत्वादेः-घनत्वाद्यैस्सह बहवो वृक्षाः घनाः श्यामा इति सामानाधिकरण्यप्रतीतिरित्यर्थः । आदिशब्देन देशसंयोगो विवक्षितः । ननु वननिष्ठमेव घनत्वादिकमित्यत्राह-वृक्षबहुत्वादेरिति । ततोऽतिरिक्तस्य वनस्य भवताऽप्यनङ्गीकारात् ; तस्य गुणत्वात् तत्र घनत्वादीनामसंभवादिति भावः । ननु सितरक्तादितन्त्वारब्धे पटे चित्ररूपधीरस्ति ; तन्तूनामेव पटत्वे प्रत्येकतन्तुव्यतिरेकेण चित्ररूपाधिकरणपटस्याभावात्तन्तूनां तदधिकरणत्वाभावादाश्रयाभावेन चित्ररूपाभावप्रसङ्गेन चित्रधीन स्यादित्यत्राहतन्तव इति । सितरक्ताद्यास्तन्तव एव पटचित्रानुयायिनः । व्यतिषङ्गवशेन पटावस्थापन्नेषु सितरक्तादितन्तुषु विद्यमाननानारूपेष्वेव चित्ररूपठ्यवहार इत्यर्थः । तथा च चित्ररूपाश्रयतया नावयव्यभ्युपेयमित्याहअवयव्यनपेक्षत्वमिति । अनपेक्षत्वं-अनपेक्षा। तत्र दृष्टान्तः-चूर्णसंहतिचित्रवदिति । सितरक्तादिचूर्णसंहताववयव्यनभ्युपगमादिति भावः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy