________________
सरः]
त्रिगुणपरीक्षायां सव्यवदसाधने खमते दूषणपारहारः
239
सर्वार्थसिद्धिः रूपादीनामचित्रेऽपि वदन् वैषम्यदर्शनम् । अपह्ववीत वैयात्यात् खपुष्पादेरदर्शनम् ॥ या चासौ '* धारणाकृष्टयोरुपपत्तिरसूत्र्यत ।
आनन्ददायिनी ननु चूर्णचित्रापेक्षया विशेषात्तन्तुरूपातिरिक्तमेव चित्ररूपम् । नच तन्तवस्तदधिकरणं ; युगपद्विजातीयरूपासंभवादित्यत्राह-रूपादीनामिति। तन्तुरूपपटरूपादीनामचित्रेऽपि वैचित्र्याभावेऽपि भेदाभावेऽपीत्यर्थः । वैषम्यदर्शनं- वैषम्योपलम्भनं वदन्--खपुष्पादेरप्युपलम्भं वदेदित्यर्थः । नन्ववयव्यनभ्युपगमे एकावयवधृतेऽन्येषामवयवानां धारणं न स्यात् ; एकावयवाकृष्टेऽन्येषामाकर्षणं न स्यात् ; दृश्यते च मूले धृते वा कृष्टे वाऽग्रादीनां धारणमाकर्षणं च । अवयव्यङ्गीकारे तु एकत्वात् सर्वावयवष्ववयविनस्तत्संभवादिति चेत् तत्राह -या चासाविति ।
भावप्रकाशः * धारणेत्यादि-'धारणाकर्षणोपपत्तेश्च' (न्या. सू.२-१-३५) इति सूत्रमित्थं व्याचख्यावुद्योतकरः- अवयव्यर्थान्तरभूतः इति चार्थः। किमिदं धारणं नाम ? एकदेशग्रहणसाहचर्ये सत्यवयविनो देशान्तरप्राप्तिप्रतिषेधो धारणम् । यदाऽवयविन एकदेशं गृह्णाति तदैकदेशग्रहणेन सहावयविनमपि गृह्णाति । तेन च ग्रहणेन यदवयविनो देशान्तरप्राप्तिनिराकरणं तद्धारणम् । अकर्षणं नाम एकदेशग्रहणसाहचर्येण यदवयवविनो देशान्तरप्रापणं पूर्ववत् । कुत एतत् ? लोकतः । लोकः खलु धारणाकर्षणे एवं प्रयुङ्क्ते इति । ते एते धारणाकर्षणे अवयविनं साधयतः । कथमिति ! निरवयवे चावयवे चादर्शनात्' इति । अत्र