________________
सरः]
त्रिगुणपरीक्षायां सव्यवादसाधने खमते दूषणपरिहारः
237
सर्वार्थसिद्धिः शब्देन संसर्गिद्रव्याणि देशकालौ च गृह्यन्ते । द्वितीयेन त्वादिशन्देन यूथपलिमण्डलसेनाव्यूहपूर्णचतुरश्रादिसंग्रहः । परिषदाद्युपादानं दृष्टान्तार्थम् । मत्वर्थीयमपि शूरवती सेनेतिवत् प्रत्येकसमुदायभेदविवक्षया स्यादिति ।।
भिन्नानामेव संश्लेषे संघातैक्यानुसारतः । संयुक्तौ द्वाविति प्रख्या राशिद्वित्वनयाद्भवेत् ॥ महत्त्वैकत्वयुक्तत्वप्रभृतेरपि राशिवत् । संयुक्तद्रव्यनिष्ठत्वात् न संयोगे प्रसञ्जनम् ॥
. आनन्ददायिनी त्राह-मत्वर्थीयमपीति । मतोरर्थ इवार्थो यस्येति बहुव्रीहिः । 'मत्वर्थाच्छः' इति स्वार्थिककृत्प्रत्ययः । ननु घटादीनां संघातात्मकत्वे परस्परसंयोगे सत्येकसंघातत्वापत्त्या एकस्मिन्नेव संयुक्ताविमाविति च द्वाविति च बुद्धिर्न स्यादित्यत्राह-भिन्नानामेवेति । भिन्नानामवयवानां संश्लेषे--संयोगविशेषे संघातैक्यानुसारतः—पृथक् संघात'क्लप्त्या संघातद्वयस्य संयोगेऽपि संयोगविशेषावस्थोभयघटितैकसंघातात्मकत्वाभावात् संयुक्तौ द्वाविति बुद्धी राशिद्वय इव सम्भवतीत्यर्थः । अन्यथा महत्त्वादि राश्यादावपि न स्यादिति भावः । ननु संयोगविशेषावस्थात एव घटादिव्यवहाराः ; तर्हि महत्त्वादिकं संयोगस्य स्यादिति तस्यैव द्रव्यत्वापत्तिः; अवस्थाश्रयस्य त्वया द्रव्यत्वाभ्युपगमात् । तथा च घट्टकुट्यां प्रभातमित्यत्राह–महत्त्वैकत्वेति । राशिसंयोगादेः द्रव्यनिष्ठतया न संयोगस्य द्रव्यत्वमिति भावः । ननु त्वन्मते संयोगस्यैव घटाद्यवस्थारूपतया महत्त्वैकत्वद्वित्वयुक्तत्वादीनां संयोगविशेष