SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 236 सव्याख्यसर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापे संसर्गादेविशेषादवयविपरिषद्राशिवन्यादिवादः ।। ___ सर्वार्थसिद्धिः सुग्रहमेव देशाधिक्यम् । देशस्तु आलोकादिर्यःकश्चिद्यथायोग्यमस्तु। अत एव '* प्रधानाभावादणुषु स्थौल्यारोपोऽपि न स्यादिति चोद्यमपि निस्तीर्णम् । तथापि यदि संसृष्टास्तन्तव एव पटः, ततः तन्तुराशिमात्रेऽपि पटधीस्स्यात् इत्यत्राहसंसर्गादेरिति । न हि त्वयाऽपि तन्तुसंसर्गमानं पटस्यासमवायिकारणमिष्यते; तथा सति कुविन्दादिव्यापारनरपेक्ष्यप्रसङ्गात् । अतो यादृशात्संसर्गविशेषादवयवी तवोत्पद्यते तादृशसंसर्गविशेषविशिष्टास्तन्तवः पटः इति क्वातिप्रसङ्गः? आदि आनन्ददायिनी रेऽप्यवयवसंघात एव न्यूनाधिकदेशत्वमित्युपसंहरति-अत इति । देशस्त्विति–तन्निर्धारण व्यर्थमित्यर्थः । अत एवेति-देशाधिक्यरूपप्रधानस्योपपादितत्वादित्यर्थः । ततः स्थूलधीबाधशङ्केति (२२६) मूलस्यायमर्थः-स्थूलधियो या बाधशङ्का—स्थूलधीः कुत्राऽपि नास्तीति या शङ्केति यावत् । सा ततः देशाधिक्यरूपस्थौल्यस्योपपादनान्नेति । कातिप्रसङ्ग इति-तन्तुराशिमात्रे पटधीप्रसङ्गो नास्तत्यिर्थः । ननु तन्तूनामेवावस्थायोगिनां पटत्वे पटस्तन्तुमानिति प्रयोगो न स्याीदत्य भावप्रकाशः 1* प्रधानाभावादिति—मुख्याभावादित्यर्थः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy