SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सरः] त्रिगुणपरीक्षायां सद्दव्यवादसाधने खमते दूषणपरिहारः सर्वार्थसिद्धिः निरवयवस्यांशभेद ? इति चेत् आत्मानं पृच्छ; कर्णशष्कुल्याद्युपाधिपरिच्छित्तया नभसि नानाश्रोत्राणि कल्पयसि । भेर्यादिशब्देषु श्रूयमाणेषु तरङ्गवृत्त्या तत्तदनन्तरदेशेषु शब्दोत्पत्तिं साधयसि । वेणुरन्धादिविशेषभागाश्व प्रसिद्धाः । आकाशादेर प्रत्यक्षत्वात्तदंशतारतम्यं दुर्ग्रहमिति चेन्न ; प्रत्यक्षाकाशवादिनं प्रति हेत्वसिद्धेः । त्वयाऽपि माषादवयविनो महीधरस्याधिकदेशत्वं गृह्यते । आलोकमण्डलांशभेदैस्तत्र देशाधिक्यमिति चेन्न ; अलोकस्यापि नभसि न्यूनाधिकदेशवृत्तित्वदृष्टेः । परिमाणाधिक्यमात्रमेव पर्वतादिषु गृह्यत इति चेत्; अगृह्यमाणमपि देशाधिक्यं तत्रास्ति न वा ? अस्ति चेत्; संघातेऽपि कश्वोद्यावकाशः १ न चेत्; तत्तदेशेषु चक्षुः प्रसरादिनिरोधकत्वं न स्यात् । अन्यथा अल्पदेशवर्तिनः सर्वत्र निरोधकत्वप्रसङ्गात् । अतः परस्परानाक्रान्तदेशावष्टम्भेन संहन्यमानेषु त्रसरेणुषु . 235 आनन्ददायिनी प्रदेशभेदाश्च सर्वसिद्धा इत्याह- वेणुरन्ध्रेति । प्रत्यक्षेति – सिद्धान्ते प्रत्यक्षत्वादिति भावः । प्रतिबन्धा समाधत्ते - त्वयापीऽति । आकाशाप्रत्यक्षवादिनाऽपि माषावयवापेक्षया महीधरस्योपरिभागेऽधिकदेशत्वं ग्राह्यम् । तत्राकाशव्यतिरेकेणान्यस्याभावादिति भावः । आलोकस्यापीति-- आलोकमण्डलान्तराभवादिति भावः । ननु माषापेक्षया महीधरस्योपरिभागे परिमाणाधिक्यमेव (दृश्यते) गृह्यते न देशाधिक्यमिति शङ्कते - परिमाणाधिक्यमिति । न चेदिति — तत्तद्देशाधिकदेशकत्वाभावादितिभावः । ननु तत्तदधिकदेशकत्वाभावेऽपि तत्तद्देशे चक्षुः प्रवृत्तिनिरोधकत्वम स्त्वित्यत्राह—अन्यथेति । अविशेषादिति भावः । तथाचावयव्यनङ्गीका |
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy