________________
232
सव्यास्नयसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः देशाधिक्यं समेतेष्वणुषु न हि ततः स्थूलधीबाघ
शङ्का
सर्वार्थसिद्धिः
संहतौ स्थूलत्वाध्यासोऽपि न सिध्येदिति ; तत्राह - देशाधिक्यमिति । अयं भावः — स्थूलधीरिति अवयविधीर्वा परिमाणविशेषधर्वा प्रत्यक्ष योग्यत्वधीर्वा प्रत्येकदेशादधिकदेशत्वधीर्वा ? नाद्यः ; तद्भावप्रसक्तेरिष्टप्रसङ्गात् । न द्वितीयः ; संहते (तैं ) रेव अवयविवत् परिमाणान्तरस्य सृष्ट्युपपत्तेः । अणुष्वेव कथं विरुद्धं स्थूलत्वं स्यादिति चेत्; एकत्वाद्याश्रयेष्वेव कथं द्वित्वदिकमिच्छसि ? अपेक्षाबुद्धिसंगृहीतान्यानुबन्धसामर्थ्यादिति चेत्;
आनन्ददाहिनी
सिद्धेस्संघातस्याप्यणुवदग्राह्यत्वात् । स्थूलत्वाध्यासोऽपीति --- आरोप्यस्यान्यत्र सत्त्वनियमात् । तथा च सर्वसिद्धस्थूलधीः क्वचिदाप न स्यादिति भावः । ननु देशाधिक्यं वा कथं भवेत् ? भवतु वा आधिक्यम् ; तथाऽप्यणुभूतस्य स्थौल्यं प्रत्यक्षं वा कथं भवेदित्यत्राह — अयं भाव इति । तदभावप्रसक्तेरिति — अवयव्यभावापादनस्येत्यर्थः । एकत्वेतिनच ' अणोरणीयान् महतो महीयान् ' इत्यादिश्रुत्या ब्रह्मणि परपक्षवत् स्वाभाविकाणुत्वमहत्त्वप्रसङ्गः इति चेत्; यथैकव्यक्तिगतैकत्वसमनियतं द्वित्वं विरुद्धं तथैकपरिमाणसमनियतं परिमाणान्तरं विरुद्धमिति व्याप्तेः ; भगवति तन्महत्परिमाणसमनियततदणुत्वं विरुद्धमिति न तत्स्वाभाविकमिति ध्येयम् । अन्यानुबन्धः -- व्यक्तयन्तरानुबन्धः – संबन्धः ।