________________
सरः]
त्रिगुणपरीक्षायां सहव्यवादसाधने खमते दूषणपरिहारः
233
....
सर्वार्थसिद्धिः बुद्धयनपेक्षसंभेदसामर्थ्यादेव परिमाणान्तरमपि पश्यन्तु भवन्तः। न तृतीयः; एकैकस्याप्यप्र(स्याप्र) त्यक्षत्वेऽपि समुदायवशादृश्यत्वोपपत्तेः । यथैकैकस्य दवीयसः केशहिमादेरदर्शनेऽपि संहतानां दृश्यत्वम् । एकैकस्याप्यासत्तौ दर्शनाद्योग्यत्वमस्तीति चेत् ; अणूनामपि त्रसरेणुमात्ररूपाणां '* सामग्रीसंभवे तथैव स्यात् । न चतुर्थः; माषादिराशिषु संहतिभेदैर्देशतारतम्यदृष्टेः । ननु तत्तत्परिमाणावयविद्रव्याभावे तत्प्रयुक्तदेशन्यूनाधिकत्वं दुर्निरूपं स्यात् ; मैवम् ; न ह्यवयविनिरूपणेनैव देशाधिक्यादिनिरूपणम्; सुरभित्वगन्धत्वादेरिव संबन्धिन्यूनाधिकभावेनापि तदु
आनन्ददाहिनी एकैकस्यापीति-तथा च सर्वथा दर्शनायोग्यत्वाभावात् दृष्टान्तवैषम्यमिति भावः । वैषम्याभावमाह--अणूनामिति । तथैव स्यात्दर्शनयोग्यत्वं स्यादित्यर्थः । त्रसरेणुविश्रमादणुपरिमाणस्येति भावः । नन्विति-न्यूनाधिकपरिमाणद्रव्यावच्छिन्नस्यैव न्यूनाधिकदेशत्वादिति भावः । सुरभित्वेति- यथा कर्पूरघुळिषु पुष्पेषु वा सौरभ्यं न्यूनमधिकं वाऽऽश्रयन्यूनाधिकभावाद्भवति ; तथा अत्रापि संयुक्तद्रव्यन्यूनाधिकभावेन अवयव्यभावेऽपि तारतम्यं संभवतीत्यर्थः । गन्धत्वमित्यत्र
भावप्रकाशः वार्तिकम् । स्थूलत्वं नानावयवानां विलक्षणस्संयोगः इति न दोषइति भावः । '* सामग्रसिम्भवे इति—जालसूर्यमरीचिसंयोगादिकारणसमवधाने इत्यर्थः । 'अभेद्यः परमाणुः । भिद्यते त्रुटिः' इत्यादि वार्तिके द्रव्यत्वे सति बाह्यकरणप्रत्यक्षत्वेन त्रसरेणोर्भेदनसाधनमयुक्तम् ;