SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ त्रिगुणपरीक्षायां सद्द्रव्यवादसाधने स्वमते दूषणपरिहारः 231 तत्वमुक्ताकलापः वस्त्रे दीधैकतन्तुभ्रमणविरचिते वस्तुधर्नापि बाध्या । सरः] सर्वार्थसिद्धिः संघातासिद्धेरित्यत्राह — वस्त्र इति । न हि वयं तन्तुगतं एकत्वं द्वित्वबहुत्वादिकं वा पटधीनिबन्धनं नियच्छामः ; यथादृष्टि (सर्व) संभवात् । त्वं तु स्वपक्षदोषमस्मत्पक्षस्थं ( त्रवीषि ) मन्यसे। प्रदर्शितं हि पत्रे ताटङ्कनिष्पत्तौ एकस्यावयवस्यानारम्भकत्वम् । अतिप्रसङ्गोऽपि तथैव । स्यादेतत; अवयविनमनभ्युपगच्छतामन्ततः पर्वतादयोऽपि परमाणव एव संहताः स्युः । ते च न प्रत्यक्षाः । अतः ' ' सर्वाग्रहणमवयव्यसिद्धेः ' इत्यक्षपादोक्तमनतिक्रमणीयं स्यात् । स्थूलद्रव्याभावे च अणु आनन्ददायिनी (द्रव्ये) ह्यनित्यताव्यवहारः स्वर्गिन्यायेन विशिष्टवेषेणेत्यर्थः । यथादृष्टीतिसंयोगविशेषरूपावस्थाबलाद्व्यवहारः । तथा च तादृशावस्थाया अत्रापि सत्त्वात् पटव्यवहारादिसंभव इत्यर्थः । प्रत्युत तवैव तत्र पटबुद्धयाद्यनुपपत्तिरित्याह— त्वं त्विति । संयोगासंभवेन तव कारणाभावात् ; मम त्ववयवानामेव संयोगादिति भावः । ते च- - परमाणवः । सर्वाग्रहणम् – परमाणुवत् पर्वतादेरग्रहणम् । अतिरिक्तस्य प्रत्यक्षयोग्यस्यावयविनोऽ भावप्रकाशः *सर्वाग्रहणमवयव्यसिद्धेः (२-१-३४) इति — ' सर्वेषामर्थानामग्रहणं प्रसज्येत; यद्यवयव्यर्थान्तरभूतोऽवयवेभ्यो नास्ति इति' न्याय -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy