________________
220
सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्तोकलाप
[जडद्रव्य
सर्वार्थसिद्धिः तथा प्रसङ्गात् । अथ कार्यगुरुत्वस्यातिमन्दत्वात् सूक्ष्म पतनवैषम्यं दुर्ग्रहमिति तदपि न मान्धकारणादृष्टेः, कल्पकासंभवाच्च।
आनन्ददायिनी तन्तूनां विभागेन पटनाशे उत्पादकाभावाद्रूपादिकं न स्यात् । न च कारणगुणप्रक्रमेणोत्पत्तिः ; परमाणावपि नाशात् । न च नित्यत्वात्परमाणुगतानां न नाश इति वाच्यं ; तथा सति पटदशायां तन्तूनां प्रत्यक्षता न स्यात् । न चेष्टापत्तिः ; अस्मिन् पटे त एव तन्तव इति सर्वानुभवविरोधादिति भावः । कल्पकासंभवाच्चेति--नन्ववय
भावप्रकाशः कुत उत्पद्येत' इति । ननु बहुभिस्तन्तुभिः न्यूनगुरुत्ववत्तया दृष्टैरारब्धे पटे कार्ये गुरुत्वमान्यासंभवेऽपि कारणेषु गुरुत्वं मन्दमेव दृश्यते इति कारणगुरुत्वस्य मन्दतया न पतनाधिक्यप्रसङ्गः । एवमभिप्रेत्य उद्योतकरण 'तस्मादप्रतिषेधोऽयं कार्यगुरुत्वैः कारणगुरुत्वस्य विनाशप्रतिबन्धाविति' प्रतिबन्धविनाशपक्षाङ्गीकोरण गुरुत्वान्तरकार्याग्रहणादिति हेतुदूषणं न संभवतीत्यभिधाय ‘अतः पूर्व एव प्रतिषेधो नानकान्तादिति कार्यकारणगुरुत्वानवधारणाच्च' इति हेतुद्वयेन स्वमते दूषणोपसंहारः कृतः । तत्रानैकान्तादिति हेतुः पूर्वं तत्रैव स्फुटीकृतः'अवनमनविशेषानाधारत्वान्न गुरुत्वान्तरवत्कार्यद्रव्यवती तुलेति' प्रस्तुत्य 'अयमप्यनैकान्तत्वादहेतुः गुरुत्वान्तरवव्यसंनिपाते सत्यवनमनाविशेषानाधरत्वस्य दृष्टत्वात्-यथा गुरुत्ववति द्रव्ये उन्मीयमाने त्रुटिभूते रजसि सन्निपतितः इति महागुरुत्वे चोन्मीयमाने गुरुत्वमात्रोपहितानामवनमनविशेषं न करोति' इति । अत्र 'गुरुत्वमात्रोपहितानामणूनामवनमनविशेषं न करोति तुला, इति तात्पर्यटीका; इति शङ्कामपनुदन् उपसंहरति