________________
सर: ] त्रिगुणपरीक्षायां सद्दव्यवादसाधने कार्योपादानभेदे परोक्तं साधकम् 221
तत्वमुक्ताकलापः स्वकार्यं नान्यत्वं न संख्याव्यवहृतिधिषणाकारसर्वार्थसिद्धिः
'*अतस्तन्तुतत्कार्यपटसमुदायोन्माने पटद्वयोन्मान इव गुरुत्वान्तरकार्य दुस्त्यजम् | आदिशब्देन द्रवत्वगन्धादिसंग्रहः । स्वकार्य-तदुचितं कार्यमित्यर्थः । तथाऽप्यनन्यथासिद्धभेदकभूम्ना भेदसिद्धौ गुरुत्वान्तरकार्यादर्शनं कथञ्चिदन्यतरप्रतिबन्धेन नेयमित्यभिप्रायेण शङ्कमानं प्रत्याह —- नान्यत्वमिति । यद्यपि नामभेदाभेदावर्थभेदाभेदयोरप्रयोजक; तथाऽपि पर्यायातिरिक्तो विशेष
आनन्ददायिनी
व्यातिरेक्यकल्पकमेव कल्पकमिति चेत् न ; तस्यैवासिद्धेरिति भावः । रसादिरादिशब्दार्थः । कल्पकमाशङ्कते – तथापीति । अत्र – तन्तुपट -
भावप्रकाशः
'*अतस्तन्तुतत्कार्यपटसमुदायेत्यादिना । अयं भावः- -अत्र तात्पर्यटीकायां 'अणूनामवनमनविशेषं न करोति तुला' इत्यनेन अणुगुरुत्वमात्रस्य दुर्ग्रहताप्रतीतावपि 'द्रव्यसमाहारगतगुरुत्वावधारणात्' इत्युपक्रम्य ' आचरमादाच परमाणोश्च द्रव्यसमाहार उन्मीयते । तत्र मनुष्यधर्मणो न युक्तं वक्तुं इयत्कारणगुरुत्वामियत्कार्यगुरुत्वमिति । न च समाहारः कारणं अपितु अनारब्धकार्यं चरमद्रव्यं कारणमिति' इति न्यायवार्तिकविवरण तात्पर्यटीकायां 'द्रव्यसमाहार इति मृत्कणमृच्चूर्णशर्कराकपालकुम्भसमाहार' इत्यनेन मृत्कणादिगुरुत्वावधारणं स्फुटं प्रतीयते । तत्र च अनारब्धकार्यस्य चरमद्रव्यस्य कारणत्वाङ्गीकारेऽपि कुम्भकारणपरम्परानन्तःपातिनः कुम्भस्यचो भयोरुन्माने गुरुत्वाधिक्यप्रतीतिवत्