SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सर: त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः 211 सर्वार्थसिद्धिः त्वात् । मानोन्मानादिविशेषनिर्धारणं हि तत्र विधित्सितम् । तत्र हैतुकोक्तानुवादमात्रमिह स्यात् । तत्र च त्रसरेणुतः किश्चित्सूक्ष्मं भवतु मा वा भूत् ; दृष्टोपक्रमं विवक्षितसिद्धिरित्यत्राकूतम् । शास्त्रतश्च क्वचिदनन्यथासिद्धात् परमाणुसिद्धावपि तदनुमानभङ्गात्परस्य मानभङ्गः। यथा प्रकृत्याद्यनुमायिनस्साङ्ख्यस्य ॥ शास्त्रकविषयत्वे च परमाणोर्न सिध्यति । नित्यस्पर्शादियोगित्वं भूतानां विकृतित्वतः ॥ अस्पण्विंशसंघत्वात् कतिचित्प्रकृतेरतः। आनन्ददायिनी त्पर्याभावमेवोपपादयति-मानोन्मानादीति । तत्रेति । इदमुपलक्षणंत्रसरेणुतस्सूक्ष्मभागपरिकल्पना च स्यादिति द्रष्टव्यम् । तदिदमाहभवतु मा वा भूदिति–तावतैव माननिर्णयसम्भवादिति भावः । परमाणौ शास्त्रप्रमाणकथनं विवक्षितमित्याह-शास्त्रतश्चेति । ननु यथाकथञ्चित्परमाणुसिद्धिरेवालमित्यत्राह-शास्त्रैकाविषयत्व इति । परमाणोनित्यस्पर्शरूपरसगन्धवत्त्वं च तदङ्गीकृतं न सिध्यतीत्यर्थः । तत्र हेतुमाह-भूतानामिति । अणूनां भूतविकृतित्वादित्यर्थः । यद्वा भूतानां परमाणुविकृतित्वाद्विकृतिवत्परमाणुरप्यनित्यरूपादिमानित्यर्थ इत्याहुः । इतरे तु स्पशादीनां भूतविकारत्वात्प्रकृतिभूतपरमाणौ स्पर्शादयो न स्युरित्यर्थ इति वदन्ति । किञ्चाणूनां निरवयवत्वमपि न सिध्यतीत्याह---अस्पर्शेति । कतिचित्–केचन । अस्पर्शाण्वंशसङ्घत्वात् अतः प्रकृतेः सकाशात् । 14*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy