SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 210 -~ संव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप जडद्रव्य सर्वार्थसिद्धिः सर्वव्यापिस्वतस्सर्वज्ञजगत्कर्तृविषयत्वाच्च वाक्यस्य । सूक्ष्मशब्दश्च न परिमाणविशेषनियतः । उक्तं च विभ्वी प्रकृति महीयसश्च महदादीन् प्रकृत्य साङ्मयैः-'सौक्ष्म्यात्तदनुपलब्धिः' इति । ननु त्रसरेणोरष्टमष्षष्ठो वा भागः परमाणुरिति सर्वानुमतैश्शिल्पिनां शास्त्रैः धर्मशास्त्रैः तन्मूलस्मृत्या च परमाणुसिद्धिस्स्यात् ? तन्न; शिल्पादिशास्त्राणां परमाणावतत्पर आनन्ददायिनी .. परं; येन परमाणुसिद्धिमाशङ्केतेत्याह—सर्वव्यापीति । उक्तं चेति सामान्यतस्तु दृष्टात् अतीन्द्रियाणां प्रसिद्धिरनुमानात् ।। इत्यादिना प्रकृत्यादिसिद्धिमुक्त्वा तेषामनुपलब्धिबाधात्सिद्धिर्न स्यादित्याशङ्कय अनुपलब्धिमानं न बाधकं ; अपि तु योग्यानुपलब्धिः ; प्रकृते सा नास्ति । कुतः? सौक्ष्म्यात्तदनुपलब्धिः नाभावात् कार्यतस्तदुपलब्धेः । इति महत्स्वपीन्द्रियाग्राह्यत्वमात्रेण सूक्ष्मपदं प्रयुक्तमित्यर्थः । ननु देवताविग्रहादिप्रमाणनिर्णयार्थम् जालसूर्यमरीचिस्थं सूक्ष्मं यत्परिदृश्यते । तस्याष्टमो वा षष्ठो वा भागोऽणुः परिकीर्तितः । इति । तथा स्वर्णस्तेयादिनिर्णयार्थ स्मृतावपि-- जालसूर्यमरीच्यां यद्भाति सूक्ष्मं त्रुटेः परम् । भागोऽष्टमस्तृतीयो वा परमाणुरितीरितः ॥ इत्यादिना शिल्पशास्त्रधर्मशास्त्रेषक्तेः कथं निराकरणम् ? इति शङ्कतेनन्विति । अतत्परत्वादिति-परमाणुविषयतात्पर्याभावादित्यर्थः । ता
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy