________________
सरः]
त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः
209
तत्वमुक्ताकलापः परतदितरता पक्षमासाद्यनन्तं श्रौतोपादानसौक्ष्म्यं न भवदभिमतं तत्प्रथिनः श्रुतत्वात् ॥ १९ ॥
सर्वार्थसिद्धिः . नन्तव्यक्तिवृत्तित्वमविशिष्टम् ; तथापि न्यूनाधिकवृत्त्यैव परापरभावो युष्माभिः कल्पितः तद्वदिहापि स्यादिति भावः । निदर्शनान्तराण्यप्याह-पक्षेति । अनन्ताः पक्षा मासाश्च । तथाऽपि मासापेक्षया द्वैगुण्यं पक्षाणामेष्टव्यम् । आदिशब्देन क्षणप्रभृतिपरार्धादिसंग्रहः। अन्यच्च घटसमुदायाद्धटपटसमुदायोऽधिकः । हिमवद्दक्षिणदेशान्मेरुदक्षिणदेशः । एकात्मदुःखजातादनन्तात्मदुःखजातमित्यादि स्वयमूह्यम् । 'नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनि परिपश्यन्ति धीराः' इति जगदुपादानं निरतिशयसूक्ष्मं श्रूयते । अतोऽस्मदायग्राह्यो दुस्त्यजः परमाणुरित्यत्राह-श्रौतेति । न हि सर्वन्यूनपरिमाणत्वं तत्सूक्ष्मत्वं; पूर्वोक्त सर्वगतशब्देन श्रुत्यन्तरैश्च विरोधात् । न च जात्यभिप्रायोऽसौ; एकस्य सर्वोपादानंत्वोक्तेः ।
आनन्ददायिनी मासापेक्षयेति—एकैकस्य मासस्य पक्षद्वयात्मकत्वादिति भावः । मूले 'व्यक्तयानन्त्येऽपि जात्योः परतदितरता पक्षमासाद्यनन्तम्' इत्यनन्तरं तथाऽपि न्यूनाधिकभावो दृष्ट इति शेषः । सर्वगतशब्देनेति-विभुशब्देनापीत्यर्थः । असाविति-सर्वगतशब्द इत्यर्थः । एकस्येति-अजामेकामित्यादिनेत्यर्थः । वस्तुतस्तु नेदं वाक्यं प्रकृति
SARVARTHA.
14