________________
212
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः एकैकाण्वंशभागेऽपि भागानन्त्यं प्रचक्षते ॥ निरंशा प्रकृतिस्सैव परिणामविभागिनी । अनन्तांशात्मिका चेति व्याहतं साङ्खयभाषितम् । अत्यन्तभिन्नसत्वादिद्रव्यसंघात्प्रधानतः॥ यथांशं विश्वसृष्टौ च न स्यात्रिगुणता क्वचित् ॥१९॥ इति त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः.
आनन्ददायिनी एकैकाण्वंशस्य पृथक्करणेऽपि तस्मिन्नंशेऽपि भागानन्त्यं प्रचक्षते तस्याप्यनन्तावयवत्वं वदन्तीत्यर्थः । तथाच क्वचिदपि पर्यवसानाभावान्निरवयवपरमाणुसिद्धिर्न स्यादिति भावः । साङ्ख्यास्तु प्रकृतिर्निरंशैव परिणामवशाद्विभक्ता सत्यनन्तांशा चेति वदन्ति। तदयुक्तं ; सांशत्वनिरंशत्वविभागानां व्याहतत्वादित्याह-निरंशा प्रकृतिरिति । तैरेव साङ्ख्यैरत्यन्तभिन्नसत्वरजस्तमसां सङ्घातः प्रकृतिरित्युक्तं ; तदपि दूषयति-अत्यन्तेति । यथांऽशं विश्वसृष्टौ चेति । सत्वांशस्सत्वरूपं कार्यं सृजति रजोंऽशो रजोरूपं तमोऽशस्तमोरूपं चेत्यर्थः । न स्यादिति । कचिदपि कार्ये त्रिगुणता-सत्वादिरूपता न स्यादित्यर्थः । ननु त्रयाणामेकैकस्मिन्नेव कार्ये शुक्लकृष्णादितन्तूनामिव जनकत्वमस्त्विति चेत् मैवं; तैः प्रत्येकं तत्तदंशजनकत्वोक्तेः। किंच तथासत्यत्यन्तभेदाङ्गीकारो व्यर्थः । त्रयाणामेकात्मत्वस्य लाघवेनाभ्युपगन्तुं युक्तत्वात् ॥१९॥
___ इति त्रिगुणपरीक्षायां परमाणुकारणतावादभङ्गः.