SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 204 सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलाप [जडद्रव्य तत्वमुक्ताकलापः विश्रमस्त्वस्तु दृष्टे सर्वार्थसिद्धिः वान्येषु सर्वेष्वङ्गीकारात् कल्प्येष्वपि तत्प्रसङ्गो दुर्वार इति ब्रूमः । नचान्यत्रैवायं नियम इति स्थाप्यं ; तादृशानामणूनामदृष्टेः । अनन्यथासिद्धलिङ्गाभावाच्च । यदि विभज्यमानेष्वभावपरिशेषायोगात् परमाणुरपि सत्वरजस्तमसां सर्वापकृष्टस्सबात इति सांख्यमतस्य निर्मूलत्वात् महत्परिमाणतारतम्यविश्रान्तिवत् परिमाणतारतम्यत्वादणुपरिमाणतारतम्यविश्रान्तिरपि क्वचित्कल्प्येत तत्राह-विश्रमस्त्वस्तु दृष्ट इति । दृष्टे त्रसरेणौ विश्रमसंभवे न मृग्यं ह्यन्यत् । तथा च सिद्धसाध्यता। यदि त्रसरेणुरेव परमाणुस्स्यात् अप्रत्यक्षस्तर्हि स्यादिति चेत् । हन्त; आनन्ददायिनी यद्यपि व्यणुकस्य परमाणुरवयवः; तथाऽप्यवयव्यारम्भकाणामवयवानां संयोगः स्वावयवावच्छिन्नो दृष्ट इति त्वयाऽपि द्वयणुकातिरिक्तकार्यस्थलेऽङ्गीकारादित्यर्थः । अत्र प्रत्यक्षदृष्टेस्संकोच उतानुमानादिति विकप्ल्याद्यं दूषयति--- तादृशानामणूनामदृष्टेरिति-अप्रत्यक्षत्वादित्यर्थः । द्वितीयं दूषयति-अनन्यथेति । लिङ्गं शङ्कते-यदीति । सर्वापकृष्टसंघात इति–प्रकृतिकार्यत्वादिति भावः । निर्मूलत्वात्-निष्प्रमाणकत्वात् । महत्परिमाणेति । अणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् महत्परिमाणतारतम्यवदिति प्रयोगो द्रष्टव्यः । यत्र विश्रमस्स . निरवयवोऽणुरिति भावः । न मृग्यमिति-अन्यत्परमाणुद्रव्यं न कल्प्यमित्यर्थः । यदीति--परमाणोरतीन्द्रियत्वनियमादिति भावः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy