SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सरः त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः 203 सर्वार्थसिद्धिः ामः तदा विभुप्रतिबन्धा अणुष्वपि तत्संभवः प्रदर्येत । किंत्ववयव्यारम्भकाणामवयवैरेव संयोग इति नियमस्य त्वयै आनन्ददायिनी वर्तिसंयोगापहवायेत्यर्थः । विभुप्रतिबन्येति । यद्यपि विभूनां तन्नयूनपरिमाणसंयोगः स्वाश्रयभूतन्यूनपारमाणद्रव्याभावे न संभवति आश्रयरहितप्रदेशे संयोगासंभवात् । यद्येकाश्रयसत्त्वमात्रात् प्रतियोग्यन्तराभावप्रदेशेऽप्याश्रयान्तरे संयोगस्स्यात् तथा सति प्रदेशान्तरवर्तिवह्निना पटस्य कात्स्येन संयोगस्स्यात् अविशेषादिति कृत्स्नपटदाहनकदेशेन पटदाहः कुत्रापि न स्यादिति युक्तमाकाशादावव्याप्यवृत्तिसंयोगवत्त्वं । परमाणौ तु तन्नयूनपरिमाणप्रतियोग्यन्तरा भावान्नाव्याप्यवृत्तिसंयोगसंभवः; तथाऽप्यभ्युपगम्यैतदुक्तमिति द्रष्टव्यं । तत्संभवः --अव्याष्यवृत्तिगुणसंभवः । अवयव्यारम्भकाणामिति । . भावप्रकाशः इत्यनेन षट्केनेत्यायुक्तार्थदृढीकरणात् । अत्रैव पूर्व अतस्सर्वदिगुपाधिसंयोगानां परमाणुषु पृथक्प्रदेशरहितानां कथमोपाधिकभागभेदापादकत्वमित्याद्युक्तदूषणानुद्धाराच्च । सिद्धान्ते निरंशसंयोगः " श्रुतेस्तु शब्दमूलत्वात् ” इति सूत्रेण व्यवस्थापितः । त्रसरेण्वंशानामदर्शनेन तेषां निरवयवतया तत्संयोगस्सर्वजनप्रत्यक्षविषय इति — संसर्गे च निरंशत्वं' इत्याद्युक्तदोषस्य न प्रसर इति ; संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय । इति माध्यमिकोक्तौ — यदि दृष्टं' इति भागमवलम्ब्यैव — महद्दीर्घवद्वा दस्वपरिमण्डलाभ्याम् ” इति (२-२) सूत्रभाष्योक्तदूषणं संगमयति-किन्त्वित्यादिना ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy