________________
रसः ]
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
205
सर्वार्थसिद्धिः
कुत्रैषा व्याप्तिः ?
सिद्धो ह्यन्यत्र दृष्टान्तः साध्ये त्वन्योन्यसंश्रयः । त्रसरेणुः पराणुस्सन् किं नाध्यक्षोऽपराणुवत् ।। चाक्षुषत्वप्रकर्षनिकर्षयोर्महत्त्वप्रकर्षनिकर्षानुविधानात् द्रव्यस्य चाक्षुषत्वं महत्त्वनियतमिति चेत्; चाक्षुषावयवकस्यैव द्रव्यस्य चाक्षुषत्वनियमदर्शनात् । अचाक्षुषावयवकस्य त्रसरेणोरप्यचाक्षुषत्वप्रसङ्गे कस्ते निस्तारः १ अगत्येति चेत् भवतु कुतश्चिन्महत्त्वाभावेऽपि क्वचिदेवं । आनन्ददायिनी
कुत्रेति – गृहीतेति शेषः । प्रत्यक्षसिद्धो दृष्टान्त उतानुमानिक इति विकल्पमभिप्रेत्याद्यं दूषयति — सिद्ध इति । नात्र प्रत्यक्षसिद्धिरिति भावः । द्वितीयं दूषयति — साध्ये त्विति । तस्यापि दृष्टान्तापे - क्षायामनुमानान्तराधनस्य दृष्टान्तत्वे चक्रका नवस्थाप्रसङ्गात्प्राथमिकानुमानगम्यस्यैव दृष्टान्तत्वेऽन्योन्याश्रय इत्यर्थः । त्रसरेणोः परमाणुत्वेऽाप प्रत्यक्षत्वं साधयति — त्रसरेणुरिति । परमाणु सन्— परमाणुस्थानापन्नः । त्रसरेणुरध्यक्षः अणुत्वात् तदपेक्षया स्थूलजालमरीचि - मध्यभासमानाणुवत् । इन्द्रियस्याणुत्वं नास्तीति अणवश्चेति' सूत्रे प्रत्यपादीति भावः । महत्त्वस्य बहिर्द्रव्यप्रत्यक्षव्यापकत्वात्रसरेणौ तन्निवृत्तिमाशङ्कते - चाक्षुषत्वति । बहिर्द्रव्यप्रत्यक्षत्वेत्यर्थः । यद्वा चाक्षुषत्वनिवृत्तिमाशङ्कत इत्यर्थः । साहचर्यमात्रं न व्याप्ति - ग्राहकम प्रयोजत्वादित्याह — चाक्षुषावयवस्यैवेति । तथाचात्र त्रसरेणौ विश्रमानङ्गीकर्तुस्तदतिरिक्तपरमाण्वभ्युपगन्तुरपीत्यर्थः । कुतश्चित् — कारणान्तरात् । क्वचित् — त्रसरेणौ महत्त्वरूपपरिमाणाभावेऽपि । एवं
6