________________
सरः]
त्रिगुणपरीक्षायां परमाणुकारणवादभङ्गः
भावप्रकाशः
अभूतं ख्यापयत्यर्थं भूतमावृत्य वर्तते । अविद्या जायमानेव कामलातङ्कवृत्तिवत् ॥
तदुपदर्शितं च प्रतीत्यसमुत्पन्नं वस्तुरूपं संवृतिरुच्यते । तदेव लोकसंवृतिसत्यमित्यभिधीयते लोकस्यैव संवृत्या तत्सत्यमिति कृत्वा । यदुक्तं - मोहः स्वभावावरणाद्धि संवृतिः
सत्यं तथा ख्याति यदेव कृत्रिमम् । जगाद तत्संवृतिसत्यमित्यसौ
मुनिः पदार्थं कृतकं च संवृतिम् ॥
इति । सा च संवृतिर्द्विविधा लोकत एव । तथ्यसंवृतिर्मिथ्यासंवृतिश्चेति । तथाहि — किञ्चित् प्रतीत्यजातं नीलादिकं वस्तुरूपमदोषवदिन्द्रियैरुपलब्धं लोकत एव सत्यं । मायामरीचिप्रतिबिम्बादिषु प्रतीत्यसमुपजातमपि दोषवदिन्द्रियोपलब्धं यथास्वं तीर्थिकसिद्धान्तपरिकल्पितं च लोकत एव मिथ्या । तदुक्तं —
विनोपघातेन यदिन्द्रियाणां
193
षण्णामपि ग्राह्यमवैति लोकः ।
सत्यं हि तल्लोत एव शेषं विकल्पितं लोकत एव मिथ्या |
इति । एतत्तदुभयमपि सम्यग्दृशामार्याणां मृषा । परमार्थदशायां संवृतिसत्यालोकत्वात् । एतत् समनन्तरमेवोपपत्त्या प्रतिपादयिष्यामः । तस्मादविद्यावतां वस्तुस्वभावो न प्रतिभासत इति । परम उत्तमोऽर्थः परमार्थः अकृत्रिमं वस्तुरूपं । यदभिगमात्सर्वावृतिवासनानुसन्धिक्लेशप्रहाणं भवति । सर्वधर्माणां निस्स्वभावता शून्यता तथता भूतकोटिः धर्मधातुरित्यादिपर्यायाः । सर्वस्य हि प्रतीत्यसमुत्पन्नस्य
13
SARVARTHA.