SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 192 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य भावप्रकाशः .. द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ (माध्य-वृ) इत्ति । व्याख्यातं चैतत् चन्द्रकीर्तिना माध्यमिकवृत्तौ इह हि भगवतां बुद्धानां सत्यद्वयमाश्रित्य धर्मदेशना प्रवर्तते । कतमत् सत्यद्वयम् ? लोकसंवृतिसत्यं च परमार्थसत्यं च । तत्र स्कन्धात्मा लोक आख्यातः तत्र लोकादिनिश्चितम् । इति वचनात् पञ्चधातूनुपादाय प्रज्ञप्यमानः पुद्गलो लोक इत्युच्यते । समन्ताद्वरणं संवृतिः । अज्ञानं हि समन्तात् सर्वपदार्थतत्वावच्छादनात् संवृतिरित्युच्यते । परस्परसंभवनं वा संवृतिः। अन्योन्यसमाश्रयणीयेत्यर्थः । अथवा संवृतिः संकेतो लोकव्यवहार इत्यर्थः । स चाभिधानाभिधेयज्ञानज्ञेयादिलक्षणः । लोके संवृतिः लोकसंवृतिः । किं पुनरलोकसंवृतिरप्यस्ति ? यत एवं विशेष्यते लोकसंवृतिरिति ? यथावस्थितपदार्थानुवाद एषा ; नात्रैषा चिन्तावतरति । अथवा तिमिरकामलाद्युपहतेन्द्रियविपरीतदर्शनावस्था लोकाः। तेषां या संवृतिः अतो विशेष्यते लोकसंवृतिसत्यमिति ! एतच्च लङ्कावतारे विस्तरेणोक्तं ततो वेदितव्यं इति । एवमन्यत्रापि (बो. च) ___संवृतिः परमार्थश्च सत्यद्वयमिदं मतम् । बुद्धेरगोचरस्तत्वं बुद्धिस्संवृतिरुच्यते ॥ इति । प्रज्ञाकरमतिश्च बोधिचर्यावतारपञ्चिकायामेतदित्थं व्याचख्यौसंत्रियते आवियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्चानयेति सवृतिः । अविद्या मोहो विपर्यास इति पर्यायाः । अविद्या ह्यसत्पदार्थस्वरूपारोपिका स्वभावदर्शनावरणात्मिका च सती संवृतिरुपपद्यते । यदुक्तमार्यशालिस्तम्बसूत्रे–'पुनरपरं तत्वेऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमाविद्या' इति। उक्तं च--
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy