SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 194 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य भावप्रकाशः पदार्थस्य निस्स्वभावता पारमार्थिक रूपं । यथाप्रतिभासं सांवृतस्यानुपपन्नत्वात् इति । सत्यद्वयमिदमुक्तं । तत्राविद्योपप्लुतचेतसां तत्स्वभावतया संवृतिसत्यमिति प्रतीतं । परमार्थसत्यं तु न ज्ञायते कीहकिंस्वभावं किंलक्षणमिति । अतो वक्तव्यं तत्स्वरूपमिति अत आहबुद्धेरगोचरस्तत्वमिति । बुद्धेः-सर्वज्ञानानां । समतिक्रान्तसर्वज्ञान विषयत्वादगोचरः-अविषयः । केनचित्प्रकारेण तत्सर्वं (बुद्धि) विषयीकर्तुं न शक्यत इति यावत् इति । कथं तत्स्वरूपं प्रतिपादयितुं शक्यम् ? तथाहि सर्वप्रपञ्चविनिर्मुक्तस्वभावं परमार्थ(सत्यं तत्वं । अतः सर्वोपाधिशून्यत्वात्कथं कयाचित्कल्पनया पश्येत । कल्पनासमतिक्रान्तस्वरूपं च शब्दानामविषयः । विकल्पजन्मानो हि शब्दाः विकल्पधियामविषये न प्रवर्तितुमुत्सहन्ते । तस्मात्सकलविकल्पाभिलापविकलत्वादनारोपितमसां वृतमनभिलाप्यं परमार्थतत्वं कथमिव प्रतिपादयितुं शक्यते ! तथापि भाजनश्रोतृजनानुग्रहार्थं (परिकल्पमुपादाय) संवृत्या निदर्शनोपदर्शनेन किञ्चिदभिधीयते—यथा तिमिरप्रभावात्तैमिरिकः सर्वमाकाशदेशं केशोण्डुकमण्डितमितस्ततोमुखं विक्षिपन्नपि पश्यति । तथा कुर्वन्तमवेत्यातैमिरिकः किमयं करोतीति तत्समीपमुपसृत्य तदुपलब्धकेशप्रणिहितलोचनोऽपि न केशाकृतिमुपलभते नापि तत्केशाधिकरणान् भावाभावादिविशेषान् परिकल्पयति । यदा पुनरसौ तैमिरिकोऽतैमिरिकाय स्वाभिप्राय प्रकाशयति केशानिह पश्यामीति तदा तद्विकल्पापसारणाय तस्मै यथाभूतमसौ ब्रवीति नात्र केशास्सन्तीति । तैमिरिकोपलब्धानुरोधेन प्रतिषेधपरमेव वचनमाह । न च तेन तथा प्रतिपादयताऽपि कस्यचिप्रतिषेधः कृतो भवति विधानं वा । तच्च केशानां तत्वं ; यत्तै मिरिकः पश्यति नातैमिरिकः । एवमविद्यातिमिरोपघातादतत्वहशो बाला यदेतत् स्कन्धधात्वायतनादि स्वरूपमुपलभन्ते तदेषां सांवृतं रूपं ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy