SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ रसः त्रिगुणपरीक्षायां परमाणुकारणवादनिरासः 189 सर्वार्थसिद्धिः कदिक्तत्ववादिनस्ते तन्निबन्धना भागक्लप्तिरशक्या ; तदुपाधिसंयोगात्तु स्यादपि; यदि तत्राप्यशानंशविकल्पक्षोभोऽतिलल्येत; अतस्सर्वदिगुपाधिसंयोगानां परमाणुषु पृथक्प्रदेशरहितानां कथमोपाधिकभागभेदसाधकत्वम् ? यदिचानंशभेदेन संयुक्ता उपाधयः कचिद्भागभेदकाः तर्हि परमाणव एव तथा आनन्ददायिनी कल्प्या ; नच संयोगभेदः; प्रतियोगिभेदाभावादिति भावः । ननु दिगुपाधीनां भिन्नत्वात्संयोगभेदस्स्यादित्यत्राह --- तदुपाधीति । यदि तत्रापति-परमाणवः स्वांशैरुपाधिभिः संयुज्यन्ते उपाधयो वा तथा तैस्संयुज्यन्ते उत स्वरूपेणेति विकल्पेन पूर्वदोषानतिवृत्तरिति भावः । दिगुपाधीनां परमाणुभिरेकदेशेन संयोगाभावे दोषमाह-अत इति । ननु स्वांशभेदेन विनाऽप्यु (विना संसृज्यमाना उ)पाधयः स्वसंयोगिनि परमाणावंशभेदकल्पका भवन्तु इति चेत् ; मैवं ; तथा सति परमाणूनामेवांशभेदकल्पकत्वमस्तु कृतमुपाधिभिः ? तदङ्गीकारेऽपि तत्संयोगस्य परमाणौ व्याप्य (परमाणाव) विद्या मानस्य अंशभेदक्लप्तावनुपयोगादित्याह--यदि चानंशभेदेनेति - भावप्रकाशः दिति चेन्न ता एव झुपपत्तेः ' इति सूत्रे तच्छब्देन 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति श्रुत्युक्तानामपामभिधानात् । तासां त्र्यात्मकत्वं च त्रिवृत्करणश्रुत्यैव वाच्यं नान्यथा । एवं च सूत्रस्योपलक्षणत्वे त्रिवृत्करणश्रुतेरुपलक्षणत्वमकामेनापि स्वीकार्य । एतत्सर्वमभिप्रेत्यैवाद्वैतपरिभाषायां आचार्योक्तरीतिराहता । अतस्विवृत्करणपक्षपञ्चीकरण
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy