________________
190
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः किं न स्युः? वृथा चैवमंशक्लप्तिः, अभागेन संयोगावस्थितेरिति । तदिदं सर्वमभिप्रेत्याहुः--
* षट्केन युगपद्योगात् परमाणोष्षडंशता । षण्णां समानदेशत्वे पिण्डस्स्यादणुमात्रकः ॥ इति ।
आनन्ददायिनी षट्केनेति षड्भिः परमाणुभिरेकस्य परमाणाषट्सु पार्थेषु योगे परमाणोः षडंशत्वं । यदि पार्श्वभेदमन्तरेण संबन्धस्तदाऽधिकपारमाणं न स्यादिति भावः । अणुमात्रक इति । स्वार्थे कः । अणुपरिमाण इत्यर्थः । ननु
भावप्रकाशः पक्षयोर्विरोधोत्प्रेक्षणेन ईक्षत्यधिकरणकल्पतरुविरुद्धस्य त्रिवृत्करणपक्षस्यैव मुख्यसिद्धान्तत्वोक्तिवंशीधरस्यायुक्तैवेति ।
वैनाशिकमूर्धन्येन प्राचीनेन योगाचारमतानुयायिना वसुबन्धुना विंशतिकारिकाविज्ञप्तिमात्रतासिद्धौ वैभाषिकमतदूषणप्रसङ्गे यदुक्तं तदर्धवैनाशिकस्यापि दूषणं भवतीति तत्रत्यां कारिकामनुवदति___* षट्केनेत्यादिना। विवृता चेत्थं तेनैव विज्ञप्तिमात्रतासिद्धौ
षट्केन युगपद्योगात्परमाणोष्षडंशता । षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर्युगपद्योगे सति परमाणोष्षडंशता प्राप्नोति एकस्य यो देशस्तत्रान्यस्यासंभवात् ।
षण्णां समानदेशत्वात् पिण्डस्स्यादणुमात्रकः । अथ य एवैकस्य परमाणोर्देशस्स एव षण्णां ; तेन सर्वेषां समानदेशत्वात्सर्वः पिण्डः परमाणुमात्रस्स्यात् परस्परव्यतिरेकादिति न कश्चित्पिण्डो दृश्यस्स्यात् । नैव हि परमाणवस्संयुज्यन्ते निरवयवत्वात्