SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 188 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [ जडद्रव्य तत्वमुक्ताकलापः विक्संयोगैकदेश्यान्नघटत इह ते विकृतोऽप्यं - सर्वार्थसिद्धिः न खल्ववयवास्पृष्टे कुत्रचित्प्रदेशे अवयवी तिष्ठेत् ? अदृष्टेरनिष्टेश्व | अवयवनाशादवयविनाशे क्षणमनाधारोऽवयवीति चेत ; तथा कल्पयतापि त्वया पूर्व तन्तुसङ्घानवच्छिन्नप्रदेशे पटस्य वृत्तिर्न कल्पिता । एवमधिकारम्भानुपपत्तौ मेरुसर्षपादिविचित्रभेदासिद्धिः । सेयमसिद्धं सिषाधयिषतस्सिद्धहानिः । तथाचासिद्धसाधनं निर्मूलम् । ननु परिमितानां सर्वेषां दिग्भेदेन भागभेदे दृष्टे परमाणुष्वपि तथाऽङ्गीकारो दुर्वार इत्यत्राह —दिक्संयोगेति । दिक्संयोगात्तोऽपि हि भागभेदस्सावयवेष्वेव दृष्टः । सरेणोरपि त्वया सावयवत्वक्लृप्तेः । निरवयवेषु तु विश्वव्याप्तैआनन्ददायिनी I न खल्विति । तथात्वे घटादेरपि परमाणुतारतम्यं नियामकाभावान्न स्यात् । सर्वकार्यद्रव्यस्यापि विभुत्वं च स्यादिति भावः । नन्ववयवं विनाऽप्यवयवी तिष्ठत्येव विनश्यदवस्थायां ; तथाचावयवाभावप्रदेशेऽप्यविनश्यन्नपि तिष्ठ (ति) तु ; अतिप्रसङ्गस्तु यथाकथञ्चिन्नेय इत्याशङ्कय समाधत्ते—अवयवनाशादिति । अन्यथा विन्ध्यभागेऽवयवनाशे हिमवद्भागेऽवयविनाशप्रसङ्गादिति भावः । सेयमित्यादि – असिद्धं परमाणुं तदपेक्षयाऽधिकपरिमाणं द्यणुकं च साधयतः विचित्रपरिमाणत्वेन सिद्धस्य मेरुसर्षपादेस्सिद्धिर्न स्यादित्यर्थः । निमूलं —– निष्प्रमाणकमित्यर्थः । ननु घटस्य पारमितम्य पूर्वो भागः दक्षिणो भागः पश्चिममुत्तरम् - र्ध्वमित्यादिदिगधीनो भेदो दृष्ट इति परमाणुष्वपि तत्कृतभागक्लतिरस्त्वित्याशङ्कते - नन्विति । दिक्संयोगेति संयोगभेदादेव भागक्लप्तिः
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy