SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ रसः] त्रिगुणपरीक्षायां परमाणुकारणवाद निरासः 187 सर्वार्थसिद्धिः मेयेषु तु यथादृष्टान्तं सिद्धिः। अन्यथा अतिप्रसङ्गात् । ततश्चावयविवादिनामवयवास्स्वभागैमिथस्संयुज्य अवयविनमारभन्त इति सिद्धान्तः । एतच्च न्यणुकावधि निर्विघातम् । घणुकारम्भे तु निरवयवा अणवोऽवयवा इति कल्पितम् । तत्रैवं प्रसङ्गावतारः—यदि परमाणवस्स्वांशतस्संयुज्यावयविनमारभेरन् तदा तदंशोऽवयवरूपस्तदन्यो वा? आये तस्यापि तथेत्यनवस्था । अन्यस्तु स्वाभाविक औपाधिको वा ? पूर्वत्र भिन्नाभिन्नता स्यात् । उत्तरत्रोपाधिसबन्धेऽप्यंशभेदो दुर्वचः। परिशेषात्तनिरपेक्षसंयोगैरन्योन्यानाघ्रातभागभेदरहितैरणुभिरारम्भस्स्यात् । त्यक्तस्तर्हि सप्रतिघत्वविरोधः। सर्वेषु च परमाणुष्वेकपरमाणुप्रदेशमात्रावस्थितेषु स्वाधिकदेशव्यापिकार्यारम्भो न स्यात् । आनन्ददायिनी अतिप्रसङ्गादिति । धूमादिना नित्यवाहिसिद्धिप्रसङ्गादित्यर्थः । एतच्चेतिसिद्धान्त इत्येतदित्यर्थः । तदन्यो वेति विकल्पं विकल्पयति–अन्यस्त्विति । स्वाभाविक इति । तद्दव्यस्वरूपमेवांश इत्यर्थः । स्वभावेन स्वरूपेणागतं संजातं वा। स्वार्थिको वा। स्वरूपमेवांशांशिभावापन्नमित्यर्थः । उत्तरत्रेति–उपाधिसंबन्ध एवांशांशिभावं भजत इति भावः । नन्वंशाभावेऽपि स्वरूपेण संयुक्ताः परमाणव आरम्भका भवन्त्वित्यत्राह-परिशेषादिति । अन्योन्यानाघ्रातेतिअन्योन्यासंयुक्तांशरहितैः-कृत्स्नसंयुक्तरित्यर्थः । त्यक्त इति-एकपरमाण्ववष्टब्धेप्रदेश परस्या (परेणा) प्यवष्टम्भस्य वक्तव्यतया स्पर्शवहव्यस्य सप्रतिघत्वनियमत्यागप्रसङ्गः, अन्यथा सर्वव्यापिसंयोगासंभवादित्यर्थः । दूषणान्तरमाह-सर्वेष्विति । तदेवोपपादयति
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy