________________
186
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः कार्यं नैवारभेरन समधिकमणवस्सर्वतस्संप्रयुक्ताः
सर्वार्थसिद्धिः भागानां चात्यन्तभेदो वेणुरन्ध्रश्लोकेऽभाष्यत । एवं सत्यणुसमूह एव प्रकृतिरिति स्थिते; 'महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम्' इति औलूक्योपालम्भो न युक्त इत्यत्राह—कार्यमिति अयं भावः-अनन्यपरशास्त्रसिद्धेष्वर्थेषु 'श्रुतेस्तु शब्दमूलत्वात्' इति न्यायेन गत्यन्तराभावे काचिद्गमनिका स्वीकार्या। अनु
आनन्ददायिनी अभाप्यतेति-प्रथमसूत्रभाष्ये महासिद्धान्ते अभेदव्यापिनो वायोः वेणुरन्ध्रभेदेनांशभेदोऽभ्यधायि इति भावः । महद्दीर्घवद्वेति । ह्रस्वपरिमण्डलाभ्यां-व्यणुकपरमाणुभ्यां महद्दीर्घवत् व्यणुकत्र्यणुकोत्पत्त्यनुपपत्तिवत् तदुक्तप्रक्रियान्तरमप्यनुपपन्नमिति सूत्रार्थः । ननु पृथकार्यारम्भाद्यनुपपत्तिः सिद्धान्तेऽपि समेत्यत आह-अयं भाव इति । यागस्य स्वर्गसाधनताबोधकश्रुतिबलाददृष्टकल्पनावादत्याहुः। श्रुतेस्त्वितिजगत्प्रति ब्रह्मणः कात्स्नघुन काणत्वमेकदेशेन वेति विकल्पे ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा' इति सूत्रेण पूर्वपक्षं कृत्वा समाहितं 'श्रुतेस्तु शब्दमूलत्वात् ' इति । श्रुतेः-श्रुतिप्रामाण्यस्य सत्त्वान्नोक्तदोषः ; कुतः? शब्दमूलत्वात्—इतरविसजातीयतया शब्दवेद्ये लोकदृष्टव्याप्तयभावादित्यर्थः । अनुमानेन तु दृष्टसजातीयमेव साधनीयं न विजातीयं व्याप्तयभावादिति भावः ।