________________
सर:]
त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
185
सर्वार्थसिद्धिः
अभाष्यत च ' त्रिवृत्करणं पञ्चीकरण प्रदर्शनम्' इति ॥ १७ ॥ इति त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
ननु पचीकरणाभिधानात्पञ्चसु भूतेषु स्वतस्सभागत्वं व्यष्टिसमष्टिभावो भूतांशानां चात्यन्तभिन्नत्वं समानन्यायतया प्रकृतिपर्यन्तेषु तत्वान्तरेष्वपि तत्सर्वं सिद्धं । भूतआनन्ददायिनी
अभाष्यतेति । 'वैशेष्यात्तु तद्वादस्तद्वादः ' ' सूत्रभाष्ये ।
त्र्यात्मकत्वात्तु' इत्यादि
“ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इति । क्षेत्रारम्भकद्रव्याणीत्यादिकमुक्त्वा प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धमिन्द्रियाश्रयभूतमिच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रमित्युक्तं भवतीति " गीताभाष्ये चोक्तमित्यर्थः । मूलश्लोकस्यायनर्थः - भूतानि द्वेधा भित्वा तत्र एकस्मिन् स्थित एव अपरम पुनश्चतुर्धा भिनत्ति । तैः पुनः भिन्नस्यार्धस्य भागैः स्थि (स्थापि) तेनार्थेन संयोजनार्थं (तु) परमधे अनुकलयति - संपादयतीत्यर्थः ॥ १७॥
इति त्रिगुणपरीक्षायां पञ्चीकरणस्थापनम्
ननु परमाणु कारणत्वनिराकरणं प्रकरणे न सङ्गतमित्याक्षेपसङ्गतिमाह -- ननु पञ्चीकरणाभिधानादिति । स्वतस्सभागत्वमिति—अन्यथा विभागकरणासंभवादिति भावः । भूतांशानामिति — भूतानामंशसंघातरूपत्वात्समष्टित्वं । अंशानां व्यष्टित्वं । समानन्यायतयेति—अन्यथा भूतानां सभागत्वं नानात्वं च स्यादिति भावः । तत्सर्वं सिद्धमिति -- सभागत्वादि सिद्धमित्यर्थः ।
-
न